पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घातुकाव्यम् । अत एवानुक्तसिद्धामपि सर्वमनस्तुष्टिं स्पष्टयति--विश्वषां सर्वेषां मुदं दुहानः पूरयन् । तंद्रूपममृतं क्षारयन् वा ॥-अदनिति । १०११ अद भक्षणे । 'व्यलदन्ति वृका मेषान्' इलादौ हिंसार्थोऽपि । अस्माच्छता।मधुन इति। १०१२ हन हिंसागत्योः। अमनुष्यकर्तृके च' इति टक् । अनुदात्ताबुदात्तेतौ । द्विषते । १०१३ द्विष अप्रीतौ । शता। दुहानः । १०१४ दुह प्रपूरणे । अपूरणं पात्रादिपूरणार्थ क्षारणम् । तस्मात् शानच् । दिग्ध इति । १०१५ दिह उपचये । उपचयो लेपनम् । कर्मणि कः । लेह्य इति । १०१६ लिह आखादने । ण्यत् । द्विषादयोऽनुदात्ताः स्वरितेतः । चक्षीमहि । १०१७ चक्षिङ् व्यक्तायां वाचि । तत्र प्रायेणाड्पूर्वोऽयं दर्शनार्थोऽपि निमन्त्रणे लिड् । उपैत । १०१८ ईर गतौ । कम्पने च द्रुमे । अस्माल । पुरावलोकनव्याजेन भक्तानुग्रहार्थं प्रस्थितस्य तस्य प्रवृत्तिमाह- ईड्योऽयमीशः समुपास्तिशीलैराशासित्तः पीतपटीं वसानः । स्वीयैश्चकंसे कशनीयकासी रमोष्ठनिसी नतचित्तनिजी ॥ ४५ ॥ अयमीशः पीतपटीं वसानस्तदानी विशेषरम्यां परिदधानः सन् स्वीयैः वकंसे संचरि- तवान् । पीतपर्टी वसान इत्यनेन मनोहरत्वमुक्तम् । कीदृशः । ईड्यः स्तुत्यः। समुपास्ति- शीलैराशासितः । समीचीनामुपास्ति ध्यानं शीलयन्ति अन्यस्यन्ति ये तैराशासित इष्टः । कशनीयान् शासचीयान् कसितुं शासितुं शीलं यस्य सः । रमाया ओष्ठं निसितुं चुम्बितुं शीलं यस्य सः । नतानां चित्तं निञ्जयितुं शोधयितुं शीलं यस्य सः ॥--ईज्य इति । १०१९ ईड स्तुतौ । ण्यत् । ईश इति । १०२० ईश ऐश्वर्ये ! पचाद्यचि ईशः । समुपा- स्तीति । १०२१ आस उपवेशने । उपपूर्वत्वात् सेवार्थत्वम् । तिन् । आशासितः । १०२२ औड् शालु इच्छायाम् । उदित्येके । कर्मणि क्तः । वसानः । १०२३ वस आच्छादने । शानच् । चकंसे । १०२४ कसि गतिशासनयोः । कत्येके । कसेत्यन्ये कशनीयकासी । कशेरनीयर् । कसेणिनिः । रमोष्ठनिसी । १०२५ णिसि चुम्बने । णिनिः । चित्तनिञ्जी । १०२६ णिजि' शुद्धौ । अस्माण्ण्यन्ताणिनिः ॥ भगवद्दर्शनेन पौराणां स्वखवासनानुरूपं विकारं वक्तुमाह-- शिजानपिज्ञानसुवर्णभूषासंपृञ्जितो वृज्यविवृजिसेव्यः । पृक्ताग्रजः पृश्चितगोपसूनुर्दृष्टोऽब्धिशायी स जनैर्युवद्भिः ॥ ४६ ॥ अब्धिशायी स पृस्ताग्रजः संयुक्ताप्रजः पृजितगोपसूनुः संयुक्तगोपवालश्च सन् युवद्भिः कौतुकातिशयात् तत्र मिश्रीभवद्भिर्जनदृष्टः । आसीदिति शेषः । कीदृगित्याह-शिक्षा- नाभिरव्यक्तशब्दं कुर्वाणाभिः पिञ्जानाभिर्वर्णाधिक्येन पिङ्गलीभविन्नीभिः सुवर्णभूषाभिः संपृञ्जितः पिङ्गलीभूतो वृज्यविवृजिसेव्यः वर्जनीयवर्जनशीलैः सद्भिः सेव्यः ॥---शिजान- पिञ्जानेति । १०२७ शिजि अव्यक्ते शब्दे । १०२८ पिजि वर्णे । पिङ्गलत्वं तत् । १. 'मद्रूप' इति पाठः. २. 'आडः शस इच्छायाम्' इदि पाठः. द.१७ । कैतेर्लिट् ।