पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। ते संसचन्तो धृतभक्तिरागाः कृष्णेन कंसं मनसा शपन्तः । त्वेषन्मुखा इष्टिनिवापहीनां कष्टां पुरी प्रापुरुदूढदर्पाः ॥ ४२ ॥ ते कृष्णेन संसचन्तः संघनन्तः पुरी प्रापुः । त्वेषत् दीप्यमानं मुखं येषां ते । इष्टिनि- वापहीनाम् । इष्टिदेवपूजा निवापः पितृक्रिया ताभ्यां हीनाम् । अत एव कष्ट नि- न्दिताम् ॥–संसचन्त इति । ९९७ षच समवाये । स च संबन्धः । शता । भक्तीति। ९९८ भज सेवायाम् । विभजने च द्रुमे । किन् । रागेति । ९९९ रन्ज रागे। पञ् । 'बभि च भापकरणयोः' इति नलोपः । शपन्तः । १००० शप आक्रोशे । शता । त्वेषदिति । १००१ त्विष दीप्तौ । शता। इष्टीति । १००२ यज देवपूजासंगतिकरण- दानेषु । किन् । 'वविखपि-' इति संप्रसारणम् । निवापेति । १००३ डुवा बी- जसंताने । तच्च क्षेत्रे बीजानां विकरणम् । अयं केशखण्डनेऽपि । निपूर्वत्वात् पितृक्रिया- र्थता । धञ् । उढेति । १००४ वह प्रापणे । कर्मणि कः । यजादित्वात्संप्रसारणम् । पचादयोऽनुदात्ताः खरितेतः । षचिस्तूदात्तः । ततो निवत्स्यन्दिवसोभागे चारुतकीयम्बरवीतलोकः । हरिः समाहूय वदन्सहायान्पुरस्य बाह्योपवनं शुशाव ॥ ४३ ॥ ततो हारदिवसो–भागे निवत्स्यन् निवासं करिष्यन् सहायान् समाहूय वदन् पुरस्म वास्योपवनं शुशाव प्राप । कीदृशः हरिः । चारूतकीखंम्बरवीतलोकः । चारु यथा तथा उतेन विस्तारितेन कीर्तिरूपेण वस्त्रेण वीतश्छदितो लोको येन सः । निवत्स्यन्निति । १००५ वस निवासे । अनुदात्त उदात्तेत् । 'लुटः सदा' इति शता । उतेति । १००६ वे तन्तुसंताने । व्याप्ती छादने चाह भष्टिः । कर्मणि क्तः । वीतेति । १००७ व्यञ् संवरये । प्राग्वत् कः। समाहूय । १००८ हृञ् स्पर्धायां शब्दे च । शब्द: शब्दनं चाह्वानम् । ल्यप् । देादयोऽनुदात्ता उभयतोभाषाः । वदन् । १००९ वद व्यक्तायां वाचि । उदात्त उदात्तेत् । शता । शुशावेति । १०१० टु ओश्चि ग- विवृद्ध्योः । उदात्तः परस्सैभाषः लिट् । 'लिट्यभ्यासस्योभयेषाम्' इति संप्रसारणम् । वृत् । यजादयो वृत्ताः । भूवादयस्त्ववृत्कृताः । तेन चुलुम्पादीनां शसिद्धिः । शब्विकर- गभूवादयो गताः ॥ अथ मधुरोपवनप्राप्त्यनन्तरं राजमार्गयानादितहिनशेषभाविनीमवस्थामाह- अहन्मधुनो द्विषते विसृज्य श्ववल्कजं विश्वमुदं दुहानः । मालेयदिग्धो जनदृष्टिलेह्यश्चक्षीमहीमा पुरमित्युपैः ॥ ४४ ॥ मधुन्नः श्रीकृष्णः श्ववल्कजमक्रूरं द्विषते द्विषन्तं बोधयितुं विसृज्य अदन भुञ्जानः सन् बयमिमा पुरं वक्षीमहि पश्येम इति । एवम्-सहायान् उक्त्वोपैत समीपमगच्छत् । को- दृशः श्रीकृष्णाः । मालेयेन चन्दनेन दिग्धो लिप्तः । अनेन निसर्गकमनीयस्यापि तस्य त- दानीमनन्यसाधारणशोभातिशयमाह । अत एव जनदृष्टिलेह्य आखाद्यः, न तु दृश्य एव ।