पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला अपादेति । ९२० १९२१ ओ चै शोषणे। पैधातोः कतरिक्तः। सुवानेति । वै- धातोः प्राग्वत् क्तः । ओदित्वान्नत्वम् । स्तावेति । ९२२ है वेष्टने। ९२३ ष्णो इत्येके । णै शौच इत्यन्ये । स्वैधातोः कर्तरि क्तः ॥ एतद्रूपं पश्यतोऽङ्करस्य प्रवृत्तिमाह- स्नातावदातः स पिबंस्तदाभां जिघन्सुगन्धं विधमन्नधानि । तिष्ठन्निहानायगमिष्टदं तमस्तौत्स्फुटेनाद्धृतधीः स्वरेण ॥ ३३ ॥ स नातावदात्तः नातश्चावदातश्च शुद्धः सन् तदाभां पिबन् सुगन्धं जिघ्रन्नघानि वि- धमंस्त्वजन्निह तिष्ठन् स्फुटेन स्वरेण तमस्तोत् स्तुतवान् । आम्नायगं वेदगतम् । अढता- कुटिला वीर्यस्य सः ॥--नातेति । ष्णै शौचे । कर्तरि क्तः। अवदातः। ९२४ दैप शोधने । पकारः 'अदाप्' इति सामान्यग्रहणार्थः । शोधनं शुद्धिः । अस्मात् कर्तरि कः । पिबन् । जिघ्रन् । विधमन् । तिष्ठन् । ९२५ पा पाने । ९२६ घ्रा गन्धोपा- दाने । ९२७ ध्मा शब्दाग्निसंयोगयोः । इह शब्दः शब्दना । अग्निसंयोगश्च मुखवायुना लक्षणया विधूल्ने, संतापेन पूरणे च । ९२८ ष्ठा गतिनिवृत्तौ । चतुर्णा शतरि 'पाघ्रा-' इत्यादिना पिवाद्यादेशाः । आम्नायेति । ९२९ ना अभ्यासे । प्रायेणाड्पूर्वः। कर्मणि घञ् । इष्टदेति । ९३० दाण् दाने । 'पाघ्रा' इत्यादिसूत्रे दाणिति विशेषणार्थों णः । अस्मात् 'आतोऽनुपसर्गे कः' । अढतेति । ९३१ ह कौटिल्ये । कर्तरि क्तः । खरेणेति । ९३२ स्वृ शब्दोपतापयोः । अस्मात् 'क्षुब्धखान्त-' इति सूत्रे खरेति निर्देशादच् ॥ स्मार्य शुभद्वारमुपासरामि त्वत्पादमृच्छामि न मोहगतम् । घृणास्तु ते विध्वृतशूरदैत्यस्रुतास्रसिक्तायुध विश्वसोतः ॥ ३४ ॥ अहं त्वत्पादमुपासरामि प्राप्नोमि मोहरूपं गते न ऋच्छामि न प्राप्नोमि। द्वयोः 'आ- शंसायां भूतबच्च' इति चकारात् प्रार्थनायां लट् । कीदृशं पादम् । स्मार्य चिन्तनीयम् । शुभद्वारं सुखकरमित्यर्थः । विवृतशूरदैत्यनुतास्रसित्तायुधः विध्वृतेभ्यो हिसितेभ्यः शूर- दैत्येभ्यः सुतैरानः रक्तैः सिक्तमायुधं यस्य तादृश, हे विश्वसोतः, जगतस्तत्तत्कर्मसु अनुज्ञाकर्तः, ईश्वर इति वा । तव घृणा दया मयि अस्तु ॥---स्मार्यमिति । ९३३ स्मृ चिन्तायाम् । ण्यत् । द्वारमिति । ९३४ हूँ वरण इत्यप्येके । घञ् । उपासरामि । ९३५ स गतौ । लट् । सरतेर्धावादेशस्तु द्रुतगतावेव । ऋच्छामि । ९३६ ऋ गति- प्रापणयोः । लटि ऋच्छादेशः। गर्तम् ।९३७ गृ ९३८ सेचने । 'असिमृग्रिण्वाभि- द्रलूपधुर्विभ्यस्तन्' इति कर्मणि तन् । तत्र गरतेरपि ग्रहणात् । घृणा । 'हण भ्रूणस्थूण- मणादयः' इति भोजोक्वधरतेणः । विवृतेति । ९३९ वृ हळुने। कौटिल्यं तत् । १. 'आम्' इति पाठः, २. 'इ' इति धातुपाठे.