पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । ९०३ ग्लै ९०४ ग्लै हर्षक्षये। हर्षक्षयः शक्तिक्षयः । ग्लैधातोः कतरिक्तः। 'संयोगादे:-' इति निष्ठानत्वम् । म्लानिम् । म्लायतेः 'ग्लाम्लान्याहाभ्यो निर्वाच्यः' इति निः । द्या- नेति । ९०५ चै न्यकरणे । न्यङ्गविधान इत्येके । कुत्सिताङ्गकरणं तत् । कर्मणि क्तः । प्राग्वन्नत्वम् । निद्रायदिति । ९०६ नै खप्ने । शता । अघ्राणेति । ९०७ नै तृप्तौ । कर्तरि क्तः । धीरिति । ९०८ ध्यै चिन्तायाम् । विपि 'ध्याप्योः संप्रसारणम्' इती- त्वम् । भगवद्दर्शनकौतुकेन जलादुन्मन्नस्यावस्थामाहे- रायद्धयत्यानरुचौ रथेऽपि तं भक्तितिथ्यापयियुं स दृया । खाताशयोऽक्षाममुदा पुनश्च मग्नोऽन्यथापश्यदजानमीशम् ॥ ३१ ॥ स तं भक्तेः तिष्टयापयिषु संघातीकतु वर्धयितुमिच्छु सन्तं रथेऽपि दृष्ट्वा । अक्षाम- मुदा पूर्णमोदेन पुनश्र पुनरपि भन्नः सन्नीशमन्यथा अपश्यत् । रायद्धयैः शब्दायमानाश्चै. स्त्यानरुचौ प्रवृद्धशोभे रथे खाताशयः स्थिरीभूतमना अगाधमना वा अजानमक्षयं नित्यम् ॥–रायदिति । ९०९ रै शब्दे । शता । स्त्यानेति । ९१० स्त्यै ९११ श्यै शब्दसंघातयोः । आद्यात् कर्तरि क्तः । नत्वम् । तिष्टयापयिषुम् । द्वितीयाण्णिजन्तात् सन्युः। 'स्तौतिण्योरेव--' इति षत्वम् । तदर्थमेव षोपदेशस्य पाठः । खातेति । ९१२ खै खदने । तच्च स्थैर्य हिंसे । 'खै खनने' इत्येव शंकराचार्यः । तस्मात् कतरि क्तः । अक्षामेति । ९१३ : ९१४ जै ९१५ चै क्षये । क्षेधातोः कर्तरि के 'क्षायो मः' इति मत्वम् । अजानन् । जैधातोल्युट् ।। अन्यथेत्युक्तं रूपं वर्णयति- प्रसातकातर्यसुरोपगीतं पूज्यं शृतास्त्राणहविर्विशेषैः । आपातमाल्यं शयितं सुवानकाशत्विषि स्ताततनौ फणीन्द्रे ॥ ३२ ॥ प्रसातकातयः प्रक्षीणभयैः सुरैरुपगीतं स्तुतं शताखाणः पक्कापक्कैश्चरुपुरोडाशक्षीरसव- नीतादिरूपैहविर्विशेषैः पूज्यम् । अपातमशुष्कमम्लाने माल्लं यस्य तम् । सुवानकाशस्य सम्यक्शुष्ककाशमञ्जास्त्विडिवातिधवला शोभा यस्य तसिन् । स्ताता वेषिता कुण्ड- लीकृता तनुर्थस्य तस्मिन् । फणीन्द्रे शयितम् । ईदृशमीशमपश्यदिति पूर्वेणान्वयः ॥- प्रसातेति । सायतेः कर्तरि क्तः । कातर्येति । ९१६ कै ९१७ गै शब्दे। कायतेः 'का- राभ्यान्तरन्' इति भोजोक्ततरनि कातरः । तस्मात् ष्यञ् । उपगीन मिति । गायतेः श. ब्दविशेषार्थत्वात् सकर्मकात् कर्मणि क्तः । तेति । ९१८ 3 ९१९ मै पाके । श्रा- यतेः 'शृतं पाके' इति निपातः । अखाणेति । वैधातोः कर्तरि ते यण्वत्त्वान्नत्वम् । १. 'ध्यायतेः संप्रसारणं च' इति वार्तिकेनेति सारम्. यथाश्रुतस्य तु क्रनिपि संप्रसार- विधायकस्योणादिसूत्रस्य 'धीवा' इत्युदाहरणम्. २. 'शै भै' इति धातुपाठे.