पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रपदजितकूर्ममूर्जितकरुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शंभोः किंचन मम नर्म शर्म निर्मातु।। १७५ ॥

कालकुरलालिकालिमकन्दल विजितालिविधृतमणिवालि ।
मिलतु हृदि पुलिनजघनं बहुलितगलगरलकेलि किमपि सहः १७६

कुङ्कुमतिलकितभाला कुरुविन्दच्छायपाटलदुकूला ।
करुणापयोधिवेला काचन चित्ते चकास्तु मे लीला ॥ १७७ ।।

पुष्पंधयरुचिवेण्यः पुलिनाभोगत्रपाकरश्रोण्यः ।
जीयासुरिक्षुपाण्यः काश्चन कामारिकेलिसाक्षिण्यः ।। १७८ ।।

तपनीयांशुकभांसि1 द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि क्षपयन्तु कपालितोषितमनांसि ।।१७९ ॥

असितकचमायताक्षं कुसुमशरं कूलमुद्बहकृपाद्रम् ।
आदिमरसाधिदैवतमन्तः कलये हराङ्कवासि महः ।। १८० ॥

कर्णोपान्ततरङ्गितकटाक्षनिस्पन्दिकण्ठदघ्नकृपाम् ।
कामेश्वराङ्कनिलयां कामपि विद्यां पुरातनीं कलये ॥ १८१ ॥

अरविन्दकान्त्यरंतुदविलोचनद्वन्द्वसुन्दरमुखेन्दुः ।
छन्दः क2न्दलमन्दिरमन्तःपुरमैन्दुशेखरं वन्दे ॥ १८२ ॥

बिम्बिनिकुरम्बडम्बरविडम्बकच्छायमम्बरवलग्नम् ।
कम्बुगलमम्बुदकचं बिब्बोकं कमपि चुम्बतु मनो मे ॥ १८३ ॥

3कमपि कमनीयरूपं कलयाम्यन्तः कदम्बकुसुमाढ्यम् ।
चम्पकरुचिरसुवेषैः संपादितकान्त्यलंकृतदिगन्तम् ॥ १८४ ॥

शम्पारुचिभरगर्हासंपादककान्तिकवचितदिगन्तम् ।
सिद्धान्तं निगमानां शुद्धान्तं किमपि शूलिनः कलये ॥ १८५ ॥

उद्यद्दिनकरशोणानुत्पलबन्धुस्तनंधयापीडान् ।
करकलितपुण्ड्रचापान्कलये कानपि कपर्दिनः प्राणान् ॥ १८६ ॥

१. 'वांसि' ख. २. 'कुन्तल' क. ३. अयं श्लोकः ख-पुस्तके त्रुटितः.