पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धातुकाव्यम् । क्रियासामान्यार्थत्वादनेकार्थत्वाच 'अस्यायमर्थः' इति नोच्यते । नोच्यत इत्यवचनमर्थ इत्यन्ये । अस्माल्ट । अकिताय । ७९२ अक ७९३ अग कुटिलायां गतौ । अके: कर्तरि क्तः ॥ पीडातिशयादरं शपन्ति- अगन्मनीषः कणयन्मुकुन्दमस्मावियोगं रणयन्स दूतः । चणन्विषादं विशणन्विचिन्तां श्रणन्विमोहं श्रथितोऽस्तु सद्यः ॥ ९॥ मुकुन्दं कणयन् गमयन् । हेतौ शता। तस्माद्धेतोः । अस्मान् वियोग रणयन् प्राप. यन् । तत एव विषादं चणन् , विचिन्तां विशणन्, निमोहं श्रणन् । त्रिषु प्रयच्छनित्यर्थः। अस्तभ्यमित्यर्थात् । स दूतः सद्यः श्रथितो हिंसितोऽस्तु । कीदृशः । गन्ती कुटिली- भवन्ती मनीषा यस्य सः ॥-अगदिति । अगेः शता। कणयन् रणयन्निति।७९४ कण ७९५ रण गतौ । द्वयोणौ शता। चणन् विशणन् श्रणनिति । ७९६ चण ७९७ शण ७९८ श्श्रण दाने च । एषां शता। श्रथितः। ७९९ श्रथ ८०० श्लथ ८०१ ऋथ ८०२ क्लथ हिंसाः । श्रथेः कर्मणि कः ॥ सर्वरक्षिणो भगवतः खरक्षादोषमाशङ्कय परिहरन्ति---

  • लथ्यात्मनां क्राथयताच्युतेन किं नाङ्गजो नः कथयन्नचानि !

वनाम किं प्रज्वलितो हरेण सोऽद्यापि यद्विवलयन्ननङ्गः ॥ १०॥ श्लथ्यात्मनां हिंस्यखरूपान् काथयता । 'जासिनिप्रहण-.' इति कर्मणि षष्ठी। अ. च्युतेन नोऽस्मान् क्लथयन् हिंसन् अङ्गजः किं न अचानि कस्मान हिंसितः । हरेण प्रज्वलितः सोऽनङ्गोऽद्यापि बिह्वलयति यत् यस्मात् तस्मात् किं बनाम करवाम । न किंचित् ॥ लथेय॑त् । काथेर्णिजन्ताच्छता । 'जासिनिग्रहणनाटकाथ-' इति निपातनाद्दीर्घः । क्लथेणौ शता । श्लथादीना णिजन्तानामपि हिंसामात्रमर्थः । जास्यादि- सूत्रे हिसायामित्युक्तेः । 'हन्त्वर्थाश्च' इति चुरादिपाठाद्वा । अचानि । चन च । हिंसार्थ इति शेषः । अस्माण्णौ चिण् । वनाम । ८०३ वनु च नोच्यते । कमिवदयमपि किया- सामान्याद्यर्थ इत्यर्थः । अस्माल्लोट् । प्रज्वलितः । ८०४ ज्वल दीप्तौ । गौ कर्मणि कः। विह्वलयति । ८०५ ह्वल ८०६ मल चलने । हलो लट् ॥ भगवत्तो बाल्यकृतं दुर्ललितत्वमप्यतिदुर्विस्मरमित्याह- प्र(अ)शल्यचित्तां स्मरयत्यसौ मां नन्दात्मज: संदरकः खलानाम् । अनारि येन अपितं पयोऽपि बालैर्मुहुः संज्ञपितासुरेण ।। ११ ।। असौ नन्दात्मजो मां सरयति सोत्कण्ठं ध्यापयति । खलानां संदरको भीषयिता । १. अत्र पुस्तकद्वयेऽपि सर्वत्र 'कृथ्यात्मनां' इति पाठः. श्रथश्लथेत्यनापि कथेति पाठ