पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४८ काव्यमाला । स्मितमल्लिकावलीं मामल्यमानं पुनः पुनः धारयन्तम् आभाल्यानासहिंस्यानां दैत्याधिपानां भल्लने हिसने उद्धुरमुद्युक्तम् । तयूभिः क्रीडकैर्बालैः सह कलाः शब्दायमानाः उरवो महान्तः कल्लोला यस्मिस्तादृशे कलिन्दजाजले देवनोत्सुकं कीडनोत्सुकम् -मामल्यमानमिति । ४९३ मल ४९४ मल्ल धारणे । मलेर्यङ् । मल्लिकेति । मल्लेः 'संज्ञायाम्' इति ण्वुल् । आभाल्येति । ४९५ भल ४९६ भल्ल परिभाषणहिंसादानेषु । भलेर्ण्य॑त् । भल्लनेति । भल्लेर्ल्युट् । कलेति । ४९७ कल शब्दसंख्यानयोः । पचाद्यच् । कल्लोलेति । ४९८ कल्ल अव्यक्ते शब्दे । 'बहुलमन्यत्रापि' इत्यलक्प्रत्ययः । तयूभिरिति । ४९९ तेवृ ५०० देवृ देवने । तेवेः 'क्विपि शूङ्' इत्यूठि अयादेशः । देवनेति । देवेर्ल्युट् ॥

सेव्यं सतां शंकरगेव्यमब्जभूग्लेव्यं सुरैः पेव्यममेव्यमुन्मदैः । प्रम्लेवितं रेवितवत्समण्डलीं मव्यद्भिराभीरजनैरसूर्क्ष्यकैः ॥ ६५ ॥ सतां सेव्यं सेवितव्यं शंकरेण गेव्यं सेवनीयम् अब्जभुवा ग्लेव्यं सेव्यं सुरैः पेव्यं सेवितुं शक्यम् उन्मदैरमेव्यं सेवितुमशक्यम् आभीरजनैः प्रम्लेवितं सेवितम् । कीदृशैः। रेवितानामुत्प्लुत्य गच्छतां वत्सानां मण्डलीं मव्यद्भिर्बध्नद्भिः । असूर्क्ष्यकैरन्योन्यमीर्ष्यामकुर्वद्भिः ॥--सेव्यं, गेव्यं, ग्लेव्यं, पेव्यं, अमेव्यमिति । ५०१ षेवृ ५०२ गेवृ ५०३ ग्लेवृ ५०४ पेवृ ५०५ मेवृ ५०६ म्लेवृ सेवने । पञ्चानां ण्यत् । प्रम्लेवितं । म्लेवेः कर्मणि क्तः । रेवितेति । ५०७ रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः । अयादय उदात्ता अनुदात्तेतः । मव्यद्भिः। ५०८ मव्य बन्धने । अवान्ता उदात्ता उदात्तेतः । अस्माच्छता । सूर्क्ष्यकैः । ५०९ सूर्क्ष्य ५१० ईर्क्ष्य ५११ ईर्ष्य ईर्ष्यार्थाः । सूर्क्ष्येर्ण्वुल् ॥

राधाकृतेर्क्ष्याकलहावलोकनादीर्ष्यां हयन्त्या रमया प्रमोदितम् । प्रशुच्य सोमं कृतहर्यतैर्नुतं समालितं फुल्लसरोजमालया ॥६६॥ राधाकृतेर्क्ष्याकलहावलोकनात् राधाकृतस्य ईर्क्ष्याकलहस्य दर्शनादीर्ष्यां अक्षमा हयन्त्या प्राप्नुवत्या रमया प्रमोदितं सोमं प्रशुच्य कृतहर्यतैर्नुतं प्रशुच्याभिषुत्य कृतो हर्यतो यज्ञो यैस्तैः । फुल्लसरोजमालया समालितं विभूषितम् ॥-ईर्क्ष्या । ईर्ष्या इति । 'गुरोश्च हलः' इत्यकारः। हयन्त्या । ५१२ हय गतौ 'भक्तिशब्दयोः' इत्येके । शन्नन्तान्डीप् । प्रशुच्येति । ५१३ शुच्य अभिषवे । अभिषवो निष्पीडनस्नपनसुरासन्धानस्नानादिः । ल्यप् । हर्यतेति । ५१४ हर्य गतिकान्त्योः । अस्मात् 'भृमृदृशियञीपर्व्यमिनमिहर्यिभ्योऽतच्' इत्यतच् । समालितं । ५१५ अल भूषणपर्याप्तिवारणेषु । कमणि क्तः । फुल्लेति । ५१६ ञिफला विशरणे । तच्च विशीर्णत्वम् । विकसनम् । 'अनुपसर्गात्फुल्ल-' इत्यादिना निपातितः ॥

उन्मीलनश्मीलनलीलया दृशोरुत्स्मीलितक्ष्मीलितविश्वविष्टपम् । पिच्छस्रजा पीलितनीलकुन्तलं शीलेन संकीलितलोकमानसम् ॥६७॥