पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ काव्यमाला । ४५१ व्रण ४५२ भ्रण ४५३ ध्वण शब्दार्थाः । धण इत्येके । अणेः शता । मणीति । मणेरौणादिक इन् । उत्कणा । कणेरप् । क्वणितेति । क्वणेः कर्तरि क्तः । व्रणदिति । व्रणेः शता । भ्रणितेति । भ्रणेः प्राग्वत् क्तः ॥

ध्वणच्छिशून्धाणसमोणिताशुभाञ्शोणान्पृथुश्रोणिजनो दुदोह च । प्रश्लोणितान्प्रैणनविध्रणत्क्षितीननुल्बणान्धेनुगणान्कनत्स्तनान् ॥५९॥ पृथुश्रोणिजनो धेनुगणान् दुदोह । गोपस्त्रीजनो नवसूतान् पशुगणान् अदुहत् (?) । कीदृशान् । ध्वणच्छिशून् शब्दायमाना बाला येषां तान् धाणसमोणिताशुभान् धाणेन शब्देन सम्यगोणितमपनीतमशुभं यैस्तान् । शोणान् रक्तवर्णकपिलप्रायान् प्रश्लोणितान् एकत्र संघातीभूतान् । प्रैणनेन गया विध्रणन्ती शब्दायमाना क्षितिर्येषां तान् । अनुल्बणान् सौम्यान् । कनन्तः शोभमानाः स्तना येषां तान् ॥-ध्वणदिति । ध्वणेः शता । धाणेति । धाणेर्घञ् । ओणितेति । ४५४ ओणृ अपनयने । कर्मणि क्तः । शोणान् । ४५५ शोणृ वर्णगत्योः पचाद्यच् । श्रोणीति ४५६ श्रोणृ संघाते । ४५७ श्लोणृ च । श्रोणेरिन् । प्रश्रोणितान् । श्रोणेः कर्तरि क्तः । प्रैणनेति । ४५८ प्रैणृ गतिप्रेरणश्लेषणेषु । ['पैणृ' इत्यपि क्वचित्पठ्यते। ] ल्युट् । विध्रणदिति । ४५९ ध्रण शब्दे । बण इत्येके । ध्रणेः शता । 'रषाभ्याम्' इति णः । उल्बणेति । बणेः पचाद्यच् । कनदिति । ४६० कनी दीप्तिकान्तिगतिषु । शता । स्तनेति । ४६१ ष्टृन ४६२ वन शब्दे । पचाद्यच् ॥

वनाद्वनं सानुममन्द्रमन्गृहं व्याधोत्करोऽहमतिमीमिताशयः । चान्तामिषश्छान्तजलः फलावलीं जान्त्वा झमञ्जेमनमक्रमीगुहाम्॥६० वनाद् वनं सानुं चामन्, गृहं द्रमन्, व्याधोत्करः चान्तामिषः, छान्तजलः, फलावलीं जान्त्वा जेमनं झमन् गुहामक्रमीत् । अमन् संचरन् । द्रमन् प्राप्नुवन् । चान्तं भक्षितं मांसं येन सः। छान्तं पीतं जलं येन सः। जान्त्वा भुक्त्वा । जेमनं लेह्यं आहारम् । झमन्नदन् । अक्रमीत् प्रविवेश । अहंमतिः अज्ञानं तेन मीमितः प्राप्तः आशयो यस्य सः ॥--वनादिति । वनेरच् । वनमिति । ४६३ वन ४६४ षण संभक्तौ । अर्थभेदमात्रेण पुनः पठितस्य वनेरप्यच् । सानुमिति । 'दृसनि' इति सनेः ञुण् । अमन् । ४६५ अम गत्यादिषु । आद्युक्तेः शब्दसंभक्तिरोगेषु । अस्माच्छता । द्रमन् । ४६६ द्रम ४६७ हम्भ ४६८ मीमृ गतौ । मीम शब्देऽपीत्येके । द्रमेः शता । अहम्मतिः । हम्मेर्भावे श्तिप् शप् च । हम्मतिर्ज्ञानम् । नञ्समासः । मीमितेति । मीमेः कर्मणि क्तः । चान्तेति । छान्तेति । ४६९ चमु ४७० छमु ४७१ जमु ४७२ झमु अदने । जिमेति चैके । चमिछम्योः कर्मणि क्तः । जान्त्वा । जमेः क्त्वा झमन् झमेः शता । जेमनम् । जिमेर्ल्युट् । अक्रमीत् । ४७३ क्रमु पादविक्षेपे । लुड् ॥


१. 'मालाः' इति पाठः.