पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १४५ सर्वेर्घञ् । चर्वेः कर्मणि क्तः । कुम्बितेति । ४२६ कुघि आच्छादने । प्राग्वत् क्तः । परिलम्बितेति । ४२७ लुबि ४२८ तुबि अर्दने । लुम्बेः प्राग्वत् क्तः ॥

वियोगसंतुम्बितकोकचुम्बिता संतापसृब्धापि जगाद तद्वधूः । मा त्वां स्मरः मृम्भतु शोभनाकृते चिन्ता न शुम्भेन च सुम्भतु व्यथा ५६ वियोगसंतुम्बितकोकचुम्बिता तद्वधूः संतापसृब्धा अपि जगाद । वियोगेन भविष्यता संतुम्बितेनार्दितेन कोकेन चुम्बिता तद्वधूस्तस्य कोकस्य वधूः स्वयं संतापेन सूब्धा पीडिता अपि जगाद । हे शोभनाकृते भासमानाकृते प्रिय, त्वां स्मरो मा सृम्भतु पीडयतु । चिन्ता न शुम्भेत् न स्फुरतु । पीडयतु वा । व्यथा न च सुम्भतु ॥--संतुम्बितेति तुबेः कर्मणि क्तः । ४२९ वुबि वक्रसंयोगे । प्राग्वत् क्तः । सृब्धा । ४३० षृभु ४३१ षृन्भु हिंसार्थौ । षिभु षिन्भु इत्येके । ष्टभेः प्राग्वत् क्तः । सृन्भेर्लोट् । शोभदिति । ४३२ शुभ ४३३ शुन्भ भाषणे । हिंसायां च भासन इत्येके । षुन्भेत्यन्ये । शुभेः शता शुभेर्लिड् । सुन्भेर्लोट् । गुपादय उदात्ता उदात्तेतः ॥

प्रघिण्य भूषाः परिघुण्य मालिकाः प्रघृण्य घोणापुटघूर्णिचन्दनम् । पणाय्यरूपाः पनिताकृतीन्ययुर्भामिन्य एवाक्षमया स्वकामुकान्॥५७॥ भामिन्य एव भूषाः प्रघिण्य मालिकाः परिघुण्य घोणापुटघूर्णिचन्दनं प्रघृण्य च अक्षमया स्वकामुकान् ययुः । भामिन्यः प्रणयकुपिताः स्त्रियः । एवेत्यप्यर्थे । भूषा मालिकाः चन्दनं च गृहीत्वेत्यर्थः । घोणापुटं नासान्तर्भागं घूर्णयति भ्रमयतीति तथा । कीदृश्यः । पणाय्यं स्तुत्यं रूपं यासां ताः । कीदृशान् कामुकान् । पनिता स्तुता आकृतिर्येषा तान् ॥-प्रघिण्य । परिघुण्य प्रघृण्वेति । ४३४ घिणि ४३५ धुणि ४३६ घृणि प्रहणे । इदित्त्वाद् नुमि ष्टुत्वं ल्यप् । घोणेति । ४३७ धुण ४३८ धूर्ण भ्रमणे । धुणेरचिकोडादिनिपातनात् टाप् । घूर्णीति । घूर्णेणिजन्ताण्णिनिः । पणाय्येति । ४३९ पण व्यवहारे स्तुतौ च । ४४० पन च । पन स्तुतावेव। 'गुपूधूप-' इत्यायान्ताण्ण्यत् । पनितेति । पनेः कर्मणि क्तः। भामिन्यः । ४४१ भाम क्रोधे । घञन्तान्मत्वर्थीय इनिः । अक्षमयेति । ४४२ क्षमूष् सहने । षित्वादड् । कामुकानिति । ४४३ कमु कान्तौ । कान्तिरिच्छा । 'लषपत-' इत्यादिना उकञ् । घिण्यादय उदात्ता अनुदात्तेतः ॥

अणद्दिशः केलिरणैर्मनोज्ञया वाण्या भणन्तो मणिभूषणोत्कणाः । वनात्कुमारा: क्वणिताग्र्यवेणवो व्रणद्विषाणभ्रणिताभ्रमाययुः ॥५८॥ कुमारा वनात् क्वणिताग्र्यवेणवो व्रणद्विषाणभ्रणिताभ्रमाययुः । व्रणता शब्दायमानेन विषाणेन भ्रणितं शब्दितमभ्रमाकाशं यस्मिन् तथा आययुः । कीदृशा बालाः । केलिरणैः अणद्दिशो अण्यन्त्यः शब्दायमानाः दिशो येषां ते । मनोज्ञया वाण्या भणन्तः । मणिभूषणैः उत्कणाः सशब्दाः । क्वणिता अग्र्या वेणवो येषां ते ॥-अणदिति । ४४४ अण ४४५ रण ४४६ वण ४४७ भण ४४८ मण ४४९ कण ४५० क्वण