पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १४३ पशवः प्रचीभ्यरेभैः सह व्रजमागताः प्रचीभ्याः प्रशंसनीया रेभाः शब्दास्तैः। कीदृशैः। अम्भसां निधेः समुद्रस्य प्ररम्भणं शब्दं स्तम्भयितुं रोद्धुं शीलं येषां तैः । अस्कम्भिताः शिशुन् प्राप्य उज्जृम्भहर्षाः सशल्भनं लिलिहुः । अस्कम्भिताः प्रतिबन्धरहिताः । उज्जृम्भो वर्धमानो हर्षो यासां ताः । सशल्भनं शल्भनेन सहितं यथा तथा । शल्भनं श्लाघा । लिलिहुः । शिशून् विशिनष्टि-सजम्भनान् जम्भनेन सहितान् । जम्भनं जृम्भा ॥-प्रचीभ्येति । चीभेर्ण्यत् । रेभैः । ३८५ रेभृ शब्दे । अभि रभि इत्येके । रेभेर्धञ् । अम्भसामिति । अम्भेरसुन् । अम्भसांनिधीति 'तत्पुरुषे कृति बहुलम्' इत्यलुक् । प्ररम्भणेति । रम्भेर्ल्युट् । स्तम्भिभिरिति । ३८६ ष्टभि ३८७ स्कभि प्रतिबन्धे । स्तम्भेर्णिजन्ताण्णिनिः । अस्कम्भितः । स्कम्भेः कर्तरि क्तः । सजम्भनान् । ३८८ जभि ३८९ जृभि गात्रविनामे । आद्य ईदिदित्येके । जम्भेर्ल्युट् । रधिजभोरचीति नुम् । उज्जृम्भेति । जृम्भेः पचाद्यच् । सशल्भनम् । ३९० शल्भ कत्थने । ल्युट् ॥

वल्भप्रगल्भाः पथिकाश्च तत्क्षणं सुश्रम्भणस्तोभयुतानगुर्गृहान् । गोपायतां धर्ममधूपितात्मनां जल्पान्विमुच्याभवदुद्यमो जपे ॥ ५१ ॥ पथिकाश्च तत्क्षणं गृहान् अगुः । यथा गावस्तथा पान्था अपि तं कालमभिव्याप्य संध्यावसितिरितपर्यन्त(?)मागताः । कीदृशाः । वल्भे भोजने प्रगल्भाः समर्थाः । कीदृशान् गृहान् । सुश्रम्भणस्तोभयुतान् समीचीनपाकव्यापारयुक्तान् । [ततश्च ] धर्म गोपायतामधूपितात्मनां जल्पान् विमुच्य जपे उद्यमोऽभवत् । गोपायतां परिरक्षताम् । अधूपितोऽसंतप्त आत्मा मनो येषां तेषां सतामित्यर्थात् ॥--वल्भेति। ३९१ वल्भ भोजने । घञ् । प्रगल्भाः ।३९२ गल्भ धार्ष्ट्ये । पचाद्यच् । सुश्रम्भणेति । ३९३ श्रम्भु पाके । ल्युट् । स्तोभेति । ३९४ ष्टुमु स्तम्भे । अयं व्यापारार्थे प्रसिद्धः । अस्मात् घञ् । तिपादयोऽनुदात्तेतः । तिपिवर्जमुदात्ताः । गोपायतामिति । ३९५ गुपू रक्षणे । स्तम्भान्ता उदात्ता उदात्तेतः । अस्मात् 'गुपूधूपविच्छिपणिपनिभ्य आयः' इत्यायप्रत्ययान्तः शता । अधूपितेति । ३९६ धूप संतापे । कर्तरि क्तः । जल्पान् । ३९७ जल्प ३९८ जप व्यक्तायां वाचि । जप मानसे च । जल्पेर्घञ् । जप इति । 'व्यधजपोरनुपसर्गे' इत्यप् ॥

चेपुः सपन्तोऽसचितां प्रियां प्रियाः संध्येति रेपुः कललापिनः शुकाः । श्येनाश्चुपित्वा तुतुपुः कपोतकान्काकानतुम्पन्नभितुत्रुपुः शशान् ॥५२॥ प्रिया सपन्तोऽसचितां प्रियां चेपुः । प्रियाः पादप्रणामादिभिर्मिलिता अरञ्चितां प्रियां सान्त्वयामासुः । कललापिनः शुकाः संध्या इति रेपुर्व्यक्तमवदन् । श्येनाश्चुपित्वा कपोतकांस्तुतुपुः । पक्ष्याखेटाय विसृष्टाः श्येनाश्चुपित्वा मन्दं गत्वा तुतुपुरपीडयन् । काकान् अतुम्पन् विव्यथुः । शशानभितुत्रुपुरहिंसन् ॥--चेपुरिति । ३९९ चप सान्त्वने । लिट् । सपन्तः । ४०० षप समवाये । पचेत्येके । समवायः संबन्धः सम्यगवबोधो वा । सपेः शता । असचिताम् । सचेः कर्तरि क्तः । रेपुः । ४०१