पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ काव्यमाला ।

विपिनाध्वकेपनादङ्गैर्न व्यग्लेपि च । विपिनाध्वनो वनमार्गस्य केपनात् संचरणादङ्गैर्न व्यग्लेपि न विशेषतः ग्लानीभूतम् । कीदृशस्य । अस्तेपितोऽगतः आनन्दातिशयो यस्य तस्य ॥-अतिप्तेति । ३६२ तिपृ ३६३ तेपृ ३६४ ष्टिपृ ३६५ ष्टेपृ क्षरणार्थाः । 'विपृ धेपृ' इत्येके । तेपृ कम्पने च । स्तुभान्ता अनुदात्तेतः उदात्तास्तिपिवर्जम् । तिपेर्लुड् । तेपितेति । प्रस्तिपितेति । अस्तिपितेति । तेप्यादीनां त्रयाणां कर्तरि क्तः । व्यग्लेपि । ३६६ ग्लेपृ दैन्ये । भावे लडि चिण् । विपिनेति । ३६७ टुवेपृ कम्पने । 'वेपितुह्योर्ह्रस्वश्च' इतीनच् । केपनात् । ३६८ केपृ ३६९ गेपृ ३७० ग्लेपृ च । चकारात् कम्पने गतौ च । केपेर्ल्युट् ॥ अगेपनोऽग्लेपत स व्रजं यदा रविस्तदामेपत पश्चिमां दिशम् । प्ररेपितात्कोरकतां सरोरुहादलेपि भृङ्गैः कुमुदं त्रपान्वितैः ॥ ४८ ॥ स यदा व्रजमग्लेपत तदा रविः पश्चिमां दिशममेपत गतवान् । अगेपनो निश्चलधीः । तदा च त्रपान्वितैर्भृङ्गैः कोरकतां प्ररेपित्तात् प्राप्तात् सरोरुहात् कुमुदमलेपि प्राप्तम् ॥-अगेपनेति । गोपेः 'अनुदात्तेतश्च-' इति युच् । अग्लेपत । ग्लेपेर्लड् । अमेपतेति । ३७१ मेपृ ३७२ रेपृ ३७३ लेपृ गतौ । मेपेर्लङ् । प्ररेपितात् । रेपेः कर्तरि क्तः । अलेपि । लेपेः कर्मणि लुडि चिण् । त्रपेति । ३७४ त्रपूष् लज्जायाम् । 'षिद्भिदादिभ्योऽड्' इत्याडि त्रपा ॥

संध्यां वर्णयत्यष्टभिः-- सकम्पहेरम्बसमानलम्बनाः समाव्रजन्नम्बितघण्डिकास्तदा । प्रलम्बसास्नाः कबरत्विषो वृषा अक्लीबिताः क्षीबतयातिशीभराः॥४९॥ तदा वृषाः समावजन् वनादागतवन्तः । कीदृशा इत्यत्राह-सकम्पं हेरम्बेण गणेशेन समानं लम्बनं शब्दो येषां ते । अक्लीबिताः अतिप्रगल्भाः क्षीबतया मत्तत्वेनातिशीभरा नितरां रम्याः । अम्बिताः शब्दिता घण्डिका येषां ते । प्रलम्बा अवस्रस्ताः [ सास्ना येषां ते ] कबरा नानारूपा त्विट् येषां ते ॥-सकम्पेति । ३७५ कपि चलने । घञ् । हेरम्बेति । ३७६ रबि ३७७ लबि ३७८ अबि शब्दे । ३७९ लबि अवस्रंसने च । हे इत्येवं रम्बते इति हेरम्बः । रम्बेः कर्मण्यण् । लम्बनेति । लम्बेर्ल्युः । अम्बितेति । अम्बेः कर्तरि क्तः । प्रलम्बेति । अवस्रंसनार्थाल् लम्बेः पचाद्यच् । कबरेति । ३८० कबृ वर्णे । बाहुलकादरप्रत्ययः । अक्लीबिताः । ३८१ क्लीबृ अधार्ष्ट्ये । कर्तरि क्तः । क्षीबतयेति । ३८२ क्षीबृ मदे । 'अनुपसर्गात्फुल्लक्षीब-' इति निष्ठायामिडभावो लोपश्च निपातितः । शीभराः । ३८३ शीभृ कत्थने । ३८४ चीभृ च । पूर्ववदरप्रत्ययः ॥

प्रचीभ्यरेभैः पशवोऽम्भसांनिधिप्ररम्भणस्तम्भिभिरागता व्रजम् । अस्कम्भिताः प्राप्य शिशून्सजम्भनानुज्जृम्भहर्षा लिलिहुः सशल्भनम्