पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १४१

शठत्वमार्गे शुठितैरकुण्ठितैरलुण्ठिताशुण्ठितसौहृदान्वितैः । प्ररुण्ठिताघैरनुलुण्ठकैर्हरेः प्रचुड्डबोधाद्भिरतीव शोभितान् ॥ ४५ ॥ हरेरनुलुण्ठकैरतीव शोभितान् । अनुलुण्ठकैरनुचरैः। अतीवात्यर्थम् । कीदृशैः । शठत्वमार्गे शुठितैः प्रतिहतगतिभिः । अकुण्ठितैः स्वकृत्येष्वप्रतिहतैः । अलुण्ठितेनाप्रयासेनाप्रतिहतेन वा अशुण्ठितेनाशुष्केण क्षीणेन च सौहृदेनान्वितैः । प्ररुण्ठितं सम्यग्गतमघं येषां तैः । प्रचुड्ढस्य अभिप्रायाविष्करणस्य बोधे अद्भिरभियुक्तैः ॥–शठत्वेति । ३४२ शठ कैतवे च । अस्मात्पचाद्यजन्तात् त्वप्रत्ययः । शुठितैः । ३४३ शुठ गतिप्रतिघाते । ३४४ कुठि च । अयं प्रतिघातमात्र एवेति माधवः। आलस्ये गतिप्रतिघाते वास्ति द्रुमे । शुठेः कर्मणि क्तः । अकुण्ठितैः । कुठेः कर्तरि क्तः । अलुठितेति । ३४५ लुठि आलस्ये प्रतिघाते च । कर्तरि क्तः । अशुण्डितेति । ३४६ शुठि शोषणे । प्राग्वत् क्तः । प्ररुण्ठितेति । ३४७ रुठि ३४८ लुठि गतौ । रुण्ठेः कर्तरि क्तः । लुण्ठेर्ण्वुल् । प्रचुड्डेति । ३४९ चुड्डु भावकरणे । अभिप्रायाविष्करणं तत् । अस्माद् घञ् । अद्भिरिति । ३५० अड्ड अभियोगे । दोपधादस्मात् क्विपि संयोगान्तलोपः ॥

अकद्धरिक्रीडनधूततोडकान्प्रहूडितान्होदडरोड्यभिक्षुकैः । प्ररोडकानङ्गविलोलितैर्वृतान् रतावडद्भिर्ललनाजनैः कलैः ॥ ४६ ॥ अकड्डा अकर्कशेन हरिक्रीडनेन धूता निरस्तास्तोडकाः पीडका येषु तान् । होडद्भिः संचरद्भिः । अरोड्यैः आदरणीयैर्भिक्षुकैः संन्यासिभिः प्रहूडितान् प्राप्तान् । ललनाजनैर्वृतान् । कीदृशैः । प्ररोडकेन सर्वोन्मादकेन अनङ्गेन विलोलितैर्मादितैः । रताबडद्भिरुद्यच्छद्भिः । कलैर्मधुरैः ॥--अकदिति । ३५१ कड्डु कार्कश्ये । चुड्डादयस्त्रयो दोपधाः । डोपधाश्च द्रुमे । कड्डेः प्राग्वत् क्विप् । क्रीडनेति । ३५२ क्रीड विहारे । ल्युट् । तोडकानिति । ३५३ तुडृ तोडने । 'तूडृ' इत्येके । तोडनमुक्तम् । तुडेर्ण्वुल् । प्रहूडितान् । ३५४ हडृ ३५५ होडृ गतौ । हुट्ट इत्येके । हूडेः कर्मणि क्तः । होडदिति । होडे: शता । अरोड्येति । ३५६ रोडृ अनादरे । ण्यत् । प्ररोडकेति । ३५७ रोडृ ३५८ लोडृ उन्मादे । रोडेर्णिजन्ताद् ण्वुल् । विलोलितैः लोडेर्णिजन्तात् कर्मणि क्तः । अडद्भिः। ३५९ अड उद्यमे । शता । ललनेति । ३६० लड विलासे । लडेर्युच् । कलैः । ३६१ कड मदे । कडि इत्येके । कडेरच् । शौटादय उदात्ता अयतिवर्जं(?) उदात्तेतः ॥

अथ गोपगृहान् पश्यतोऽक्रूरस्य हर्षातिशयमाह- अतिप्त हर्षाश्रु धृतिश्च तेपिता गृहानिमान्प्रस्तिपितार्ति पश्यतः । अस्तेपितानन्दरसस्य तस्य न व्यग्लेपि चाङ्गैर्विपिनाध्वकेपनात्॥४७॥ इमान् गृहान् प्रस्तिपितार्ति पश्यतः तस्य हर्षांश्रु अतिप्त । प्रस्तिपिता क्षरिता गता आर्तिर्यस्मिन् तथा पश्यतस्तस्याक्रूरस्य हर्षाश्रु अतिप्ताक्षरत् । धृतिश्च तेपिता गता ।

द.१४