पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४० काव्यमाला । यथा तथोदयद्भिद्गच्छद्भिरंशुभिर्मण्डितैरलंकृतैः ॥-चेटैरिति । ३१७ चिट परप्रेष्ये । अच् । विटैः । ३९८ विट शब्दे । इगुपधत्वात् कः । अवेटकैः । ३१९ बिट आक्रोशे । ण्वुल् । एटदिति । ३२० इट ३२१ किट ३२२ कटी गतौ । इटेः शता । पशूत्केटीति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । कटदिति । कटेः शता । प्रकण्टितेति । 'इदितं कटिमिच्छन्ति केचिदन्ये तमेदितम् । इधातुमत्र प्रश्लिष्टमधातुं वा परे जगुः ॥' इत्युक्तेः कटेरित्त्वपक्षे कर्मणि क्तः । उदयदिति । इधातुप्रश्लेषपक्षे शता । मण्डितैः । ३२३ मडि भूषायाम् । कर्मणि क्तः । अकुण्डेति । ३२४ कुडि चैकल्ये । अच् । मुण्डितेति । ३२५ मुड ३२६ मुडि मर्दने । कर्मणि क्तः ॥

अचुन्ननुन्मुण्डितपुण्डरीकभृत्सरःश्रियो रुण्डकलुण्डनोज्झितान् । अस्फोटदग्र्यस्फटिकादिभाजनान्पाठोत्सुकैश्चावठरैर्लसन्मठान् ॥ ४३ ॥ अचुण्ड्यनल्पीभवन्त्यनुन्मुण्डितान्यखण्डितानि । अविकसितानीति यावत् । पुण्डरीकाणि बिभ्रति यानि सरांसि तैः श्रीः शोभा येषां तान् । तथा रुण्डकानां चोराणां लुण्डनेन चौर्येणोज्झितांस्त्यक्तान् । अस्फोटन्त्यभिन्नानि अग्र्याणि श्रेष्ठानि स्फटिकादिभाजनानि येषां तान् । पशुपालयान् अवठरैरमूर्खैः पाठोत्सुकैर्लसन्मठांश्च । पाठो विद्याभ्यासः । मठो गृहविशेषः ॥-अचुन्निति । ३२७ चुडि अल्पीभावे । क्विप् । अनुन्मुण्डितेति । ३२८ मुडि खण्डने। पुडीत्येके । मुण्डेः कर्मणि क्तः । पुण्डरीकेति । 'पपरीकादयश्च' इत्यत्र 'मृद्वीक-तन्तिडीक-बाह्लीक-वलीक-कल्मलीक-पुण्डरीक-चञ्चरीक-प्रतीक-सभीक-पूतिकादयश्च' इत्यत्र(?) भोजेन निपातितः । रुण्डक-लुण्डनेति। ३२९ रुटि ३३० लुटि स्तेये । 'रुठि लुठि' इत्येके । 'रुडि लुडि' इत्यपरे । ण्वुल्ल्युटौ । अस्फोटदिति । ३३१ स्फुटिर् विशरणे । स्फुट स्फुटि स्फुटे इत्येके । स्फुटेः शता । स्फटिकेति । 'अलिकलिदलिस्फटिकाभ्यश्च' इति भोजोक्त्या स्फटेः किकन् । पाठेति । ३३२ पठ व्यक्तायां वाचि । घञ् । अक्ठरैरिति । ३३३ वठ स्थौल्ये । अस्मादौणादिकोऽरप्रत्ययः । मठेति । ३३४ मठ ३३५ कठ मदनिवासयोः । मठेर्घञर्थे कः ॥

वनाश्रयत्वेऽपि सकाठपर्यठद्रठन्मृगालीहठकर्मवर्जितान् । रोठन्नृशंसालुठितैरनोठकैर्वृतान्धनाढ्यैर्मणिपीठसंश्रयैः ॥ ४४ ॥ वनाश्रयत्वे सकाठं समदं यथा तथा पर्यंठन्त्याः चरन्त्या. रठन्याः शब्दायमानाया मृगाल्या हठकर्मणा क्रूरकर्मणा वर्जितान् । मणिपीठसंश्रयैर्धनाढ्यैवृतान् । कीदृशैः । रोठन्नृशंसालुठितैः । रोठद्भिर्हिंसकैर्नृशंसैः क्रूरैरलुठितैरपीडितैरनोठकैरन्येषामहिंसकैः ॥--काठेति । कठेर्घञ् । पर्यठदिति । 'अठ गतौ' इत्यप्येके । शता । रठदिति । ३३६ रठ परिभाषणे । [ रट इत्येके । ] शता हठेति । ३३७ हठ प्लुतिशठत्वयोः । बलात्कार इत्येके । पचाद्यच् । रोठदिति। ३३८ रुठ ३३९ लुठ ३४० उठ उपघाते । ऊठेत्येके । रुठेः शता । अलुठितैरिति । लुठेः कर्मणि क्तः । ओठकैरिति । उठेर्ण्वुल् । पीठेति । ३४१ पिठ हिंसासंक्लेशनयोः । घञर्थे कः । 'अन्येषामपि दृश्यते' इति दीर्घः ॥