पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १३९ लाटार्हशाटीवटितैर्वटुव्रजैर्वृतान्खलैश्चाकिटितान्प्रखेटकैः । अशेटनीयैः सुधियामसेटकैर्युताञ्जटाझाटधरैश्च कैश्चन ॥ ४० ॥ वटुव्रजैर्वृतान् व्याप्तान् । कीदृशैः । लाटार्हशाटीवटितैः । लाटार्हाभिर्बाल्ययोग्याभिः शाटीभिर्वस्त्रैर्वटितैर्वेष्टितैः । प्रखेटकैः खलैरकिटितांश्च । प्रखेटकैस्त्रासकैः । अकिटितान् अत्रासितान् । कैश्चन जटाझाटधरैश्च युतान् । जटाझाटो जटासंघः । कीदृशैः । सुधियामशेटनीयैरत्यन्तमादर्तव्यैः । स्वयं चान्येषामसेटकैरादर्तृभिः॥-लाटेति । ३०० लट बाल्ये । घञ् । शाटीति । ३०१ शट रुजाविशरणगत्यवसादनेषु । घञन्तात् 'जातेरस्त्रीविषयाद्-' इति ङीष् । वटितैः । ३०२ वट वेष्टने । कर्मणि क्तः । वट्विति । 'वटिचटिचञ्चिभ्यश्च' इति भोजोक्त्या तस्मादेव उन् । अकिटितान् प्रखेटकैरिति । ३०३ किट ३०४ खिट त्रासे । त्रासनायामित्यर्थः । भीमार्थे च द्रुमे । कर्मणि क्तः । ण्वुल् च अशेटनीयैः । ३०५ शिट ३०६ षिट अनादरे । शिटेरनीयर् । असेटकैः । षिटेर्ण्वुल् । जटाझाटेति । ३०७ जट ३०८ झट संघाते । जटेरच् । झटेर्घञ् ॥

क्वचिद्भटाधिष्टितवेदिकातटान्क्वचिच्च खट्वाविहरन्नटीजनान् । क्वचिच्च पेटीशतपूर्णहाटकान्क्वचित्सटालोटनलोलघोटकान् ॥४१॥ भेटैरधिष्ठित आस्थितो वेदिकानां तट उन्नतप्रदेशो येषु तान् । खट्वायां विहरन्तः क्रीडन्तो नटीजना येषु तान् । पेटीशतेषु पूर्णानि हाटकानि हेमानि येषु तान् । सटानां गलरोम्णां लोटनेन क्षोभणेन लोलाश्चलन्तो घोटका अश्वा येषु तान् ॥- भटेति । ३०९ भट भृतौ । भृतिर्वेतनप्राप्तिः । अस्मात्पचाद्यच् । तटेति । ३१० तट उच्छ्राये । अच् । खट्वेति । ३११ खट काङ्क्षायाम् । 'अशिप्रुषिलटिकणिखटिविशिभ्यः क्वन्' इति क्वन् । नटीति । ३१२ णट नृत्तौ । हिंसायां च द्रुमे । नृत्तिर्नर्तनम् । तच्चात्र नटव्यापारः । अस्मादचि जातिडीष् । पेटीति । ३१३ पिट शब्दसंघातयोः । घञन्ताद् गौरादिङीष् । हाटकानिति । ३१४ हट दीप्तौ । संज्ञायां ण्वुल् । बाहुलकात् स्त्रीत्वाभावः । सटेति । ३१५ षट अवयवे । अजन्ताट्टाप् । लोटनेति । ३१६ लुट विलोटने । 'लुल' इत्यन्ये । लुटेर्ल्युट् । लोलेति । लुलेरच् ॥

चेटैर्विटैश्चानुगतानबेटकैरेटत्पशूत्केटिरजःकटन्मलान् । प्रकण्टिताशोदयदंशुमण्डितैरकुण्डरत्नैर्मुडितार्कदीधितीन् ॥ ४२ ॥ चेटैर्विटैश्वानुगतान् व्याप्तान् । कीदृशैः अवेटकैरनाक्रोशकैः । परेषामनिन्दकैः । एटद्भ्यः पशुभ्य उत्केटिभिरूर्ध्वं गच्छद्भी रजोभिर्हेतुभिः कटदपगच्छन् मलं पापं येभ्यस्तान् । अकुण्डरत्नैरकुण्डैरविकलैः संपूर्णैः रत्नैः पद्मरागादिरत्नैर्मुडिता मर्दिता तिरस्कृतार्कप्रभा येषु तान् । कीदृशै रत्नैः। प्रकण्डिताशोदयदंशुमण्डितैः । प्रकण्टिताशं व्याप्तदिक्कं


3. 'विरुजा' पा०. २. 'वित्रासे' पा०.