पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १३५ ण्यसंचयोऽर्जितसुकृतौघः । गभीरगर्जद्रथतर्जिताम्वुदः गभीरं यथा तथा गर्जता शब्दायमानेन रथेन तर्जितो भर्त्सितोऽम्बुदो येन सः॥--प्रध्रज्येति । ध्रजेर्ल्यप् । दधृञ्ज धृञ्जेर्लिट् । ध्वजेति । ध्वजेः पचाद्यच् । ध्वञ्जितेति । ध्वञ्जेः कर्तरि क्तः । कूजदिति । २२४ कूज अव्यक्ते शब्दे । शता । स्वर्गेति । २२५ अर्ज २२६ षर्ज अर्जने । सुत्रु अर्जते । अर्जेर्घञि वार्तिकमते न्यड्क्वादित्वात् कुत्वम् । सर्जितेति । षर्जेः कर्मणि क्तः । [गर्जदिति] । २२७ गर्ज शब्दे । मेधशब्दे द्रुमे । अस्माच्छता । तर्जितेति । २२८ तर्ज भर्त्सने । कर्मणि क्तः ॥

अकर्जितोऽसौ हरिखर्जनोत्कधीरजत्पशुव्रातमजेन तेजितम् । लसत्खजाकं व्रजमासदत्क्रमादखञ्जितैरेजितचामरैर्हयैः ॥ ३१ ॥ असौ हयैः क्रमात् व्रजमासददपगतोऽभूत् । अकर्जितोऽभीतो दुःखरहितो निश्चलवुद्धिश्च । हरिखर्जनोत्कधीः । हरेः खर्जने पूजायामुत्का धीर्यस्य सः । अजत्पशुव्रातमजन्तो गच्छन्तः पशुव्राता यस्मिंस्तत् । अजेन तेजितं पालितम् । लसत्खजाकं लसन्तः खजाका मन्थनदण्डा यस्मिंस्तत् । अखञ्जितैरपङ्गुभिः । एजितचामरैरेजिताः कम्पिताश्चामरा येषु तैः ॥--अकर्जित इति । २२९ कर्ज व्यथने । तच्च भयदुःखं चलनं च अस्मात् कर्तरि क्तः । खर्जनेति । २३० खर्ज पूजने । मार्जने व द्रुमे । ल्युट् । [अजदिति] । २३१ अज गतिक्षेपणयोः । शता । तेजितम् । २३२ तेज पालने । कर्मणि क्तः । खजाकेति । २३३ खज मन्थे । 'खजेराकः' इत्याकप्रत्ययः । अखञ्जितैः २३४ खजि गतिवैकल्ये । कर्तरि क्तः । एजितेति । २३५ एजृ कम्पने । कर्तरि क्तः ॥

विस्फूर्जदक्षीणघनाघनोपमक्षीजा लजन्तस्त्रिदशानलाञ्जितान् । लाजादिहोतृष्वपि लञ्जनप्रदा यस्मिन्विनेशुर्जजनेषु दानवाः ॥ ३२ ॥ दानवा यस्मिन् जजनेषु विनेशुः । यस्मिन् व्रजे । जजनेषु युद्धेषु । कीदृशा इत्यत्राह--विस्फूर्जदक्षीणघनाघनोपमक्षीजाः । विस्फूर्जद्भिः स्तनयद्भिः, अक्षीणैः पूर्णैर्घनाघनैर्मेघैरुपमा यस्य तादृशः क्षीजोऽव्यक्तशब्दो येषां ते । अलाञ्जितान् कैरप्यभर्त्सितांस्त्रिदशांल्लजन्तो भर्त्सयन्तः । लाजादिहोतृष्वपि लञ्जनप्रदा भर्त्सनप्रदाः ॥--विस्फूर्जदिति । २३६ टु ओ स्फूर्जा वज्रनिर्घोषे । शता । अक्षीणेति । २३७ क्षि क्षये । कर्तरि क्तः । 'निष्ठायामण्यदर्थे' इति दीर्घे 'क्षियो दीर्घात्' इति निष्ठानत्वम् । क्षीजेति । २३८ क्षीज अव्यक्ते शब्दे । घञ् । लजन्त इति । २३९ लज २४० लजि भर्त्सने । २४१ लाज २४२ लाजि भर्त्सने । भर्जने चेति लीलाशुकः । लजेः शता । अलाञ्जितान् । लाजे: कर्मणि क्तः । लाजेति । लाजेः कर्मणि घञ् । लञ्जनेति । लञ्जेर्ल्युट् । जजनेषु २४३ जज २४४ जजि युद्धे । जजेर्ल्यट् ॥


१. 'व्रजनिष्पेषे' इति पाठः.