पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३४ काव्यमाला । यत्र हरिद्रुमे स्थिते तत् नन्दनमाञ्छितह्रीच्छनमास्त । हरिद्रुमे हरिरूपे हरिचन्दने च नन्दनं नन्दनोद्यानमाञ्छितह्रीच्छनं आञ्छितमायतं ह्रीच्छनं लज्जा यस्य तत् । हरिद्रुमं विशिनष्टि-सुरार्चिते सुरैर्देवैः पूजिते । म्लेच्छजनैर्दुरासदे प्राकृतजनैर्दुष्प्रापे । श्रीलच्छिताङ्गे श्रिया लक्ष्या शोभया च लच्छितमङ्कितमङ्गं यस्य तस्मिन् । स्मितपुष्पलाञ्छिते सितैरेव पुष्पैः स्मितैर्विकसितैः पुष्पैश्च लाञ्छिते । वाञ्छितदे ईप्सितदे ॥--अर्चितेति । २०५ अर्च पूजायाम् । 'अच' इत्येके । अर्चेः कर्मणि क्तः । म्लेच्छेति । २०६ म्लेछ अव्यक्ते शब्दे । स चास्पष्टशब्दः । अपशब्दो वा । म्लेच्छेः पचाद्यच् । लच्छितेति । २०७ लछ २०८ लाछि लक्षणे । लच्छेः कर्मणि क्तः । 'च्छे च' इति तुक् । पूर्वत्र 'दीर्घात्' इति तुक् । लाञ्छितेति । लाञ्छेः कर्मणि क्तः । वाञ्छितेति । २०९ वाछि इच्छायाम् । कर्मणि क्तः। आञ्छितेति । २१० आछि आयामे । कर्तरि क्तः । ह्रीच्छनम् । २११ ह्रीछ लज्जायाम् । ल्युट् । प्राग्वत्तुक् ॥

अहूर्णचित्ता: परिमूर्छितव्रताः स्फूर्णामया अप्रयुशः कृतोञ्छनाः । भजन्ति यां व्युष्टिमतोऽपि भूयसीं ध्रजन्ति यद्ध्रञ्जनमात्रतो जनाः २९ ईदृशा यां व्युष्टि भजन्ति जनाः । यद्ध्रञ्जनमात्रतोऽपि भूयसीं ध्रजन्ति । व्युष्टि फलम् । यद्ध्रञ्जनमात्रतो यस्य वृन्दावनस्य ध्रञ्जनमात्रतः प्राप्तिमात्रेण । ध्रजन्ति प्राप्नुवन्ति। कीदृशा इत्यत्राह--अहूर्णचित्ताः अहूर्णमकुटिलं चित्तं येषां ते । परिमूर्छितव्रताः परिमूर्छितं परिपूर्णं व्रतं येषां ते । स्फूर्णामयाः स्फूर्णा विस्मृता आमया यैस्ते । अप्रवुशोऽप्रमत्ताः । कृतोञ्छनाः वृत्त्यर्थं कुतमुञ्छनं धान्यानां पृथक्पृथगादानं यैस्ते ॥--अहूर्णेति । २१२ हुर्छा कौटिल्ये । इह कौटिल्यमपसरणमित्येके । कर्तरि क्तः । आदित्वादनिट्त्वम् । परिमूर्छितव्रताः । २१३ मूर्छा मोहसमुच्छ्राययोः । 'गुरोश्च हलः' इत्यप्रत्यये मूर्छा । तस्मात् 'तदस्य संजातम्' इति तारकादित्वादितचि मूर्छितम् । स्फूर्णेति । २१४ स्फुर्छा विस्मृतौ । कर्मणि क्तः । अप्रयुशः । २१५ युछ प्रमादे । अस्मात् क्विपि 'च्छ्वोः शुड्-' इति छस्य शः । उञ्छनेति । २१६ उछि उञ्छे । उञ्छो धान्यानां पृथक्पृथगादानम् । अस्माल्ल्युट् । व्युष्टिमिति । २१७ उछी विवासे । स च समाप्तिः । प्रायेण विबन्धनवर्जनातिक्रमेषु च द्रुमे अस्मात् क्तिन् । ध्रजन्ति । २१८ ध्रज २१९ ध्रजि २२० धृज २२१ धृजि २२२ ध्वज २२३ ध्वजि गतौ । 'व्रजि' इत्येके । ध्रजेर्लट् । ध्रञ्जेर्ल्युट् ॥

अथ वनवर्णनमुपसंहृत्याक्रूरस्य प्रवृत्तिमाह--- प्रध्रज्य मोदं स दधृञ्ज तद्वनं ध्वजोद्गतिध्वञ्जितकूजदण्डजम् । स्वर्गोपमं सर्जितपुण्यसंचयो गभीरगर्जद्रथतर्जिताम्बुदः ॥ ३०॥ स मोदं प्रध्रज्य तद्वनं दधृञ्ज । प्रध्रज्य प्राप्य दधृञ्ज प्राप । ध्वजोद्गतिध्वञ्जितकूजदण्डजं ध्वजस्योद्गत्योर्ध्वगमनेन ध्वञ्जिता गताः कूजन्तो अण्डजाः यस्मात्तत् । सर्जितपु-