पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १३३ कौटिल्ये द्रव्यस्याल्पीभावे चेत्यर्थः । 'गतिकौटिल्ययोः' इति द्रुमे । कुचेः कर्तरि क्तः। क्रौञ्च इति । कुञ्चेः 'ऋत्विग्दधृग्-' इत्यादिना क्विनि क्रुड् । अस्मात् पुनः प्रज्ञादित्वादण् । लुञ्चन् । १८८ लुञ्च अपनयने । शता । सम्यगिति । १८९ अञ्चु गतिपूजनयोः । 'ऋत्विग्' इत्यादिना क्विन् । 'क्विन्प्रत्ययस्य कुः' इति कुत्वम् ॥

आवक्रचञ्चूपुटतञ्चदारवत्वञ्चत्खगम्रुक्तशिखैलताद्रुमैः । अम्लुक्तरश्मौ शशिना निमुम्रुचे निमुम्लुचेऽर्केण च यत्र संततम्२६ यत्र शशिना निमुम्रुचे । अक्रे(र्के)ण च निमुम्लुचे । उभयोरस्तमितमित्यर्थः । कीदृशे वने । लताद्रुमैरम्लुक्तरश्मौ अप्रविष्टरश्मौ । कीदृशैलताद्रुमैः । आवक्रचञ्चूपुटतञ्चदारवत्वञ्चत्खगम्रुक्तशिखैः । ईषद्वक्रचञ्चूमध्यात् तञ्चता उद्गच्छता आरवेण शब्देन सह त्वञ्चद्भिर्गच्छद्भिः खगैर्म्रुक्ताः प्राप्ताः शिखाः अग्राणि येषां तैः॥-आवक्रेति । १९० वञ्चु १९१ चञ्चु १९२ तञ्चु १९३ त्वञ्चु १९४ च १९५ म्लुञ्चु १९६ म्रुचु १९७ म्लुचु गत्यर्थाः । वञ्चेः 'स्फायितञ्चि-' इत्यादिना रकि नलोपश्च । चञ्चू इति । चञ्चेः 'पटिचटिचञ्चिभ्यश्च' इति भोजोक्या उप्रत्ययः । 'अप्राणिजातेश्च' इत्यूड्। तञ्चतू-त्वञ्चदिति । तञ्चेः त्वञ्चेश्च शता । म्रुक्तेति । म्रुञ्चेः कर्मणि क्तः । अम्लुक्तेति । म्लुञ्चेः कतरि क्तः। निमुम्रचे निमुम्लुचे । म्रुचिम्लुच्योर्भावे लिट् । निपूर्वत्वाद्द्वयोरस्तमयार्धत्वम् ॥

समग्रुचत्क्षीरमथाग्लुचद्धृतं चुकोज वासांसि चुखोज मानसम् । समग्लुचत्केलिषु सज्जमानधीः स यत्र गुञ्जन्मणिनूपुरो हरिः ॥२७॥ हरिर्यत्र क्षीरं समग्रुचदचोरयत् ॥ अथ धृतं अग्लुचज्जहार । वासांसि चुकोज हृतवान् । मानसं चुखोज । वृ(व्र)जवासिनां हृदयं लीलाभिरपहृतवानित्यर्थः । यत्र केलिषु सज्जमानधीर्गुञ्जन्मणिनूपुरः स समग्लुचत् । सज्जमाना सनह्यन्ती धीर्यस्य सः । गुञ्जन्तौ क्वणन्तौ मणिनूपुरौ यस्य सः । समग्लुचत् संचचार ॥–समग्रुचत् । १९८ ग्रुचु १९९ ग्लुचु २०० कुजु २०१ खुजु स्तेयकरणे । ग्रुचेः 'जृस्तम्भु-' इत्यादिना लुड्यङ् । अग्लुचत् । ग्लुचेः प्राग्वदड् । चुकोज-चुखोज । कुजेः खुजेश्च लिट् । समग्लुचत् । २०२ ग्लुञ्चु २०३ षस्ज गतौ । 'षचे' इत्यप्येके । षस्जेर्लक्षणया संनाहार्थता । ग्लुञ्चेरडि नलोपः । सज्जमानेति । 'यदभिप्रायेषु सज्जते' इति भाष्यप्रयोगादात्मनेपदम् । तेन शानच् । गुञ्जदिति । २०४ गुजि अव्यक्ते शब्दे । शता ॥

सुरार्चिते म्लेच्छजनैर्दुरासदे श्रीलच्छिताङ्गे सितपुष्पलाञ्छिते । यत्र स्थिते वाञ्छितदे हरिद्रुमे तदाञ्छितह्रीच्छनमास्त नन्दनम् ॥२८॥

१. 'चोः कुः' इत्येतद्दृष्टयास्यासिद्धतत्वेन 'चोः कुः' इत्यस्योपन्यासो युक्तः. २. 'नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजःशकारश्च षाट्टवर्गस्तवर्गजः॥' इत्यभियुक्तोक्त्या धातूना नकारोपधत्वात्.