पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ काव्यमाला । ल्युट् । शतीति । १६६ शच व्यक्तायां वाचि । इन्नन्तात् 'कृदिकारादक्तिनः' इति ङीष् । अशाश्वचुः । १६७ श्वच १६८ श्वचि गतौ । यङ्लुगन्तात् श्वचेर्लङि 'सिजभ्यस्त-' इति झेर्जुस् । श्वञ्चितेति । श्वञ्चेः कर्तरि क्तः। कचेति । १६९ कच बन्धने । दीप्तौ च द्रुमे । यूनां मनो बध्नातीति पचाद्यच् । कञ्चुकेति । १७० कचि १७१ काचि दीप्तिबन्धनयोः । कञ्चेः बाहुलकादुक्प्रत्ययः । काञ्चनेति । काञ्चीति । काञ्चेरनुदात्तेत्त्वाद्युच् । औणादिक इन्नपि । मचनेति । १७२ मच १७३ मुचि कल्कने । मचीत्येके । मुचेत्यन्ये । कल्कन दम्भः । शाठ्यं कत्थनं वा । लोकरञ्जनार्थं साध्वाचारो दम्भः । मचेर्ल्युट् ॥

अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः । समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः ॥ २४ ॥ यद् एकत्र शुभार्जकैर्नरैरेजितम् । शुभस्य पुण्यस्य तत्फलभूतस्य ब्रह्मज्ञानस्य वा अर्जकैः । एजितं शोभितम् । अमुञ्चनैः । न मुञ्चनं दम्भः शाठ्यमात्मश्लाघा वा येषां तैः । मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः मञ्चिते हरौ धारिते पूजिते उन्नते वा चित्ते मञ्चितेन व्यक्तीकृतेन त्रयीमतेन वेदान्तसिद्धान्तेन प्रस्तुचितैः प्रसन्नैः । समृञ्जितं कन्दमभृक्तसत्फलानि चोदद्भिः समृञ्जितमग्निपक्वम् । अभृक्तानि अनग्निपक्वानि । कालपक्वानीति यावत् ॥--अमुञ्चनैरिति। मुञ्चेर्ल्युट् । मञ्चितेति । १७४ मचि धारणोच्छ्रायपूजनेषु । कर्मणि कर्तरि वा क्तः । पञ्चितेति । १७५ पचि व्यक्तीकरणे । कर्मणि क्तः । प्रस्तुचितैः । १७६ ष्टुच प्रसादे । कर्तरि क्तः । [अर्जकैः] । १७७ ऋज गतिस्थानार्जनोर्जनेषु । अर्जनोपार्जनेष्विति वा पाठः । अर्जनं स्वीकारः । ऊर्जनं शक्तिप्राप्तिः प्राणनं वा । आड्पूर्वाद् ऋजेर्ण्वुल् । समृञ्जितम् । १७८ ऋजि १७९ भृजी भर्जने । भर्जनं पाकः । ऋजेः कर्मणि क्तः । अभृक्तेति । भृजेः प्राग्वत् क्तः । ईदित्त्वादनिट्त्वम् । एजितम् । १८० एजृ १८१ भेजृ १८२ भ्राजृ दीप्तौ । एजेः कर्तरि क्तः ॥

अभ्रेजि विभ्राग्भिरनीजितैश्च यत्कदाप्यशोचद्भिरशेषजन्तुभिः । चुकोच यत्रोत्कुचिताङ्गमुन्मुदःक्रौञ्चोऽपि लुञ्चन्हृदि सम्यगार्तताम्२५ यदशेषजन्तुभिरभ्रेजि च । अभ्रेजि शोभितम् । विभ्राग्भिः विशेषेण शोभमानैः। अभीजितैरकुत्सितैः । कदाप्यशोचद्भिः सदा संतुष्टैः । यत्र क्रौञ्चोऽपि हृद्यार्ततां सम्यग्लुञ्चन्नुन्मुदः उत्कुचिताङ्गं चुकोच । क्रौञ्चः पक्षी लुञ्चन्नपनयन्नुत्कुचितान्युच्चैः कुचितानि कुटिलीभूतान्यङ्गानि यस्मिन् तथेति उत्कोचनक्रियाविशेषणम् । चुकोच उच्चैः कूजितवान् ॥--अभ्रेजि । भ्रेजेर्णिजन्तात् कर्मणि चिण् । विभ्राग्भिः । भ्राजेः क्विपि 'चोः कुः' इति कुत्वम् । व्रश्चादिषत्वं तु राजेत्यनन्तरपठितस्यैव । अनीजितैः। १८३ ईज गतिकुत्सनयोः । कर्मणि क्तः। वर्चादयः पचिवर्ज्य॑मुदात्ता अनुदात्तेतः । अशोचद्भिः । १८४ शुच शोके । व्रजान्ता उदात्ता उदात्तेतः। अस्माच्छता। चुकोच । १८५ कुच शब्दे तारे। गतावित्येके । अस्माल्लिट् । उत्कुचितेति । १८६ कुञ्च १८७ क्रुञ्च गतिकौटिल्याल्पीभावयोः । गतेः