पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १३१ मिस्तङ्गितं व्याप्तम् ॥--एखदिति । इखेः शता । इङ्खितम् । इङ्खेः कर्मणि क्तः । प्रेङ्खदिति । ईङ्खेः शता । वल्गेनेति । वल्गेर्ल्युट् । रङ्गेति । रङ्गोः गच्छन्त्यस्मिन् प्रेक्षकाणां मनांसीति । 'हलश्च' इति संज्ञायामधिकरणे घञ् । अङ्गेः प्राप्नोत्यवयवानित्यङ्गम् । प्राग्वद् घञ् । अस्मात् 'अङ्गात् कल्याणे' इति पामादिपाठान्मत्वर्थीयो नः । प्रवङ्गितमिति । वङ्गेः कर्मणि क्तः । मङ्गलेति । 'मङ्गोरलच्' इत्यलच् । तङ्गोः कर्मणि क्तः ॥

त्वङ्गत्खगश्रङ्गितपक्षमारुतश्लङ्गद्रजोराजिभिरिङ्गिताम्बरम् । रिङ्गत्प्रियालिङ्गितभृङ्गसंगमत्वङ्गत्प्रसूनं रवितापयुङ्गितम् ॥ २१ ॥ त्वङ्गतां दयमानानां खगानां श्रङ्गितैश्चलितैः पक्षमारुतैः श्लङ्गन्तीभी रजोराजिभिरिङ्गितं व्याप्तमम्बरं यस्मिस्तत् । रिङ्गन्त्या चलन्त्या प्रिययालिङ्गितानां मृगाणां संगमेन त्वङ्गन्ति चलन्ति प्रसूनानि यस्मिंस्तत् । रवितापेन युङ्गितं वर्जितम् ॥ त्वङ्गदिति । त्वङ्गेः शता । श्रङ्गेः कर्तरि क्तः । श्लङ्गेः शता । इङ्गेः कर्मणि क्तः । रिङ्गदिति । रिङ्गेः शता । आलिङ्गितेति । आड्पूर्वत्वादाश्लेषार्थत्वम् । कर्मणि क्तः । त्वङ्गदिति । त्वगि कम्पने । अस्माच्छता । युङ्गितमिति । १५७ युगि १५८ जुगि १५९ बुगि वर्जने । युङ्गेः कर्मणि क्तः ॥

विजृङ्ग्य बुङ्ग्यं गुणसंघदङ्घका अलङ्घितानन्दरसात्तर्घनाः । सुमङ्घिता; शिङ्घितपुष्पसौरभा यद्बर्चमानाः पशुपाः प्रसेचिरे ॥२२॥ पशुपा. यत् प्रसेचिरे यत् वृन्दावनं प्रसेचिरे सम्यक् सेवितवन्तः । कीदृशा इत्यत्राह--वुङ्ग्य विजृङ्ग्य गुणसंघदङ्घकाः । वर्जनीयं वर्जयित्वा गुणसंघस्य दङ्घकाः पालकाः । अलङ्घितस्य अशुष्कस्य परिपूर्णस्य आनन्दस्य रसेनास्वादनेनात्तं स्वीकृतं घर्घनं हासो यैस्ते । सुष्टु मङ्घिताः मण्डिताः। शिङ्घित आघ्रातः पुष्पाणां सौरभो यैस्ते ॥-विजृङ्ग्येति । जृङ्गेर्ल्यप् । बुङ्ग्यमिति । बुङ्गेर्ण्यत् । दङ्घका इति । 'दघि पालने त्यागे व द्रुमे' । अस्माण्ण्वुल् । अलङ्घितेति । 'लघि शोपणे' । कर्तरि क्तः । घर्घनेति । १६० घर्घ हसने । ल्युट् । सुमङ्घिताः । १६१ मघि मण्डने । कर्तरि क्तः । १६२ शिघि आघ्राणे । कर्मणि क्तः। फक्कादय उदात्ता उदात्तेतः । वर्तमाना इति । १६३ वर्च दीप्तौ ईजन्ता उदात्ता अनुदात्तेतः । अस्माच्छानच् । प्रसेचिरे । १६४ षच सेचने सेवनेऽपि । लिट् ॥

सुलोचना यत्र शचीसमप्रभा अशाश्वचुः श्वञ्चितसौरभाः कचे । सकञ्चुका: काञ्चनकाञ्चिभूषिता व्रजाङ्गना निर्मचनेन नर्मणा ॥२३॥ यत्र व्रजाङ्गना निर्मचनेन नर्मणा अशाश्वचुः । निर्मचनेन निर्गतं मचनं शाठ्यं यस्मात् तेन । नर्मणा सह अशाश्वचुः इतस्ततश्चरितवत्यः । कचे केशे श्वञ्चितं व्याप्तं सौरभं यासां ताः । सुलोचना इत्यादि विशेषणचतुष्कं स्पष्टम् ॥--सुलोचना । १६५ लोचृ दर्शने । करणे


१. स्वार्थणिचमाश्रित्य ‘घाघनाः' इति पठनीयम्. २. धातुपाठे तु 'घघ हसने' इत्युपलभ्यते.