पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १२९

अवस्कि रोहिद्भिरमस्कि विष्किरैरटेकि गोधाभिरटीकि पन्नगैः । अरङ्घि कोलैर्लघु तद्रथस्वनात्प्रबुध्य सिंहै: पुनरङ्घ्रितं तदा ॥ १५ ॥ तद्रथस्वनात् रोहिद्भिरवस्कि धावितम् । विष्किरैरमस्कि पक्षिभिरुद्गतम् । गोधाभिरटेकि गतम् । पन्नगैरटीकि अपसृतम् । कोलैर्लघु अरङ्घि शीघ्रं गतम् । सिंहैः पुनः प्रबुध्य तदा अङ्घितम् । अन्येषां गतिराक्षिप्ता निन्दिता वा ॥--अवस्कि, अमस्कि, अटेकि, अटीकि, अरङ्घि । वस्कादीनां पञ्चानां भावे लुडि चिण् । लघ्विति । 'रङ्घिलङ्घ्योर्नलोपश्च' इत्युप्रत्ययः । अङ्घितम् । ११० अधि १११ वधि ११२ मधि गत्याक्षेपे । गतौ गमनारम्भे चैके । कैतवे च । अङ्घेः साध्ये भावे क्तः ॥

प्रवङ्घमानस्य च तस्य सत्वरं विमङ्घनस्याधिकाधितात्मनः । निकाममुल्लाघतनोः समत्यगात्प्रद्राधिता श्लाघ्यगुणस्य वर्तनी ॥ १६ ॥ सत्वरं प्रवङ्घमानस्य तस्य प्रंद्राधिता वर्तनी समत्यगात् च । प्रवङ्घमानस्य सम्यग्गच्छतः प्रद्राघिता अत्यर्थमायता समत्यगात् अतिक्रान्ता । विमङ्घनस्य विगतं कैतवं यस्य तस्य । अधिकराघितात्मनोऽधिकं राघितः समर्थ आत्मा मनो यस्य तस्य । निकाममुल्लाघतनोः उल्लाघा निर्गतरोगा तनुर्यस्य तस्य ॥--प्रवङ्घमानस्येति । वङ्घेः शानच् । विमङ्घनस्य । मङ्घेर्ल्युट् । राधितेति । ११३ राघृ ११४ लाघृ ११५ द्राघृ सामर्थ्ये। दाघृ आयामे चास च दैर्घ्यं क्रियासमर्थनं वा । राघेः कर्तरि तः । उल्लाघेति । 'अनुपसर्गात्फुल्लक्षीब-' इति लाघेर्निपातितः । प्रद्राघितेति । द्राघेः कर्तरि क्तः । श्लाघ्येति । ११६ श्लाघृ कत्थने । अस्मात् कर्मणि ण्यत् । शीकादय उदात्ता अनुदात्तेतः ॥

अफक्कतातक्यगुणेन तङ्कता खलश्चबुक्कापरुषे पुरेऽमुना । फेनैः कखन्तीमिव तां कलिन्दजां संतीर्यवृन्दावनमैक्ष्यनोखितम्॥१७॥ अफक्कता अमुना तां कलिन्दजां संतीर्य वृन्दावनमैक्षि । अफक्कताः मन्दगमनमसद्व्यापारं वा कुर्वता । अतक्यगुणेन । अतक्याः अपरिहसनीया गुणा यस्य तेन । खलश्वबुक्कापरुषे पुरे तङ्कता । खला एव श्वानस्तेषां बुक्काभिर्भषणैः परुषे पुरे तङ्कता कृच्छ्रेण जीवता । कीदृशी कलिन्दजामित्यत्राह-फेनैः कखन्तीं हसन्तीमिव । कीदृशं वृन्दावनमित्यत्राह-अनोखितं क्वचिदप्यशुष्कम् ॥--अफक्कतेति । ११७ फक्क नीचैर्गतौ । शिङ्घ्यन्ता उदात्ता उदात्तेतः । नीचैगतिर्मन्दगमनमसद्व्यापारो वा । अस्मात् परस्मैपदारम्भद्योतकः शता । अतक्येति । ११८ तक हसने । अस्मात् कर्मणि 'तकिशसिचतियतिजनीनां यद्वाच्यः' इति यत् । तङ्कता । ११९ तकि कृच्छ्रजीवने' । शता वुक्केति । १२० वुक्क भषणे । भषणं श्वरवः । 'गुरोश्च हलः' इत्यप्रत्ययः । १२१ कख हसने । शत्रन्तान्डीप् । अनोखितम् । १२२ ओखृ १२३ राखृ १२४ लाखृ १२५ दाखृ १२६ ध्राखृ शोषणालमर्थयोः । ओखे: कर्तरि क्तः ॥