पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२८ काव्यमाला ।

स एवमादीन्विमृशन्नरेकधीरसेकतः स्रेकिमानसो हरौ । दुःस्रङ्कमाश्रङ्कय हरेः पदं जनः प्रश्लङ्कते कुत्र रुचं क्व शङ्कते ॥१२॥ स एवमादीन् विमृशन् असेकत गतवान् । अरेकधीररेकाशङ्का धीर्यस्य सः । हरौ स्रेकितमानसो गतमना जनो दुःस्रङ्कं हरेः पदमाश्रङ्क्य कुत्र रुजं प्रश्लङ्कते क्व शङ्कते । दुःस्रङ्कं दुष्प्रापं आश्रङ्क्य प्राप्य कुत्र रुजं पीडां प्रश्लङ्कते प्राप्नोति । न क्वापीत्यर्थः । क्व कार्ये ॥--अरेकेति । ८१ रेकृ शङ्कायाम् । घञ् । असेकत । ८२ सेकृ ८३ स्रेकृ ८४ स्रकि ८५ श्रकि ८६ श्लकि गत्यर्थाः । सेकेर्लङ् । स्रेकितेति । स्रेकेः कर्तरि क्तः । दुःस्त्रङ्कमिति । स्रङ्केः 'ईषद्दुःसुषु कृच्छ्रा' इत्यादिना खल् । आश्रङ्क्येति । श्रङ्केर्ल्यप् । प्रश्लङ्कत इति श्लङ्केर्लट् । शङ्कत इति । ८७ शकि शङ्कायाम् । लट् ॥

फलाङ्कितान्वङ्कितवल्लिमङ्कितान्वनप्रदेशानुरुकाककोकिलान् । वृकावृतान्मुग्धचकोरकूजितानुड्डीनकङ्कानयमत्यवङ्कत ॥ १३ ॥ अयं वनप्रदेशान् अत्यवङ्कत अतिक्रान्तवान् । फलाङ्कितान् फलैश्चिह्नितान् । वङ्कितवल्लिमङ्कितान् वङ्किताभिः कुटिलाभिर्वल्लिभिर्लताभिर्मङ्कितान् मण्डितान् । मुग्धं चकोरकूजितं येषु तान् । उड्डीनाः कङ्काः येषु तान् ॥-अङ्कितेति । ८८ अकि लक्षणे । कर्मणि क्तः । वङ्कितेति । ८९ वकि कौटिल्ये । कर्तरि क्तः । मङ्कितानिति । ९० मकि मण्डने । कर्मणि क्तः । काक इति । ९१ कक लौल्ये । इच्छायां च द्रुमे । अस्माद् बाहुलकात् कर्तरि घञ् । कोकिलः । ९२ कुक ९३ वृक आदाने । 'सलि-कलि-अनि-महि-भडि-भण्डि-शण्डि-पिण्डि-तुण्डि-कुकि-भूभ्य इलच्' । इनि कुकेरिलच्' । वृकेति । वृकेरिगुपधत्वात् कः । चकोरेति । ९४ चक तृप्तौ प्रतिघाते च । अस्मात् 'कठिचकिभ्यामोरच्' इत्योरच् । कङ्केति । ९५ ककि ९६ वकि ९७ श्लकि ९८ त्रकि ९९ ढौकृ १०० त्रौकृ १०१ ष्वष्क १०२ वष्क १०३ मस्क १०४ टिकृ १०५ टीकृ १०६ तिकृ१ ०७ तीकृ १०८ रघि १०९ लघि गत्यर्थाः । कङ्केः पचाद्यच् । अत्यवङ्कतेति । वङ्केर्लङ् ॥

प्रश्वङ्कनोत्रङ्किततद्रथस्वनादढौकि भीतैरपि नो शिखावलैः । विष्वक्परिनौकितलोचनैः स्थितं विष्वकमाणाम्बुदनादशङ्कया ॥१४॥ शिखावलैः प्रश्वकनोत्त्रङ्किततद्रथस्वनाद्भीतैरपि नो अडौकि । शिखावलैर्मयूरैः । प्रश्वङ्कनेन वेगगमनेन उनङ्कितादुद्गतात् तद्रथस्वनात् । नो न अढौकि गतम् । विष्वष्कमाणाम्बुदनादशङ्कया विष्वक्परित्रौकितलोचनैः स्थितम् । विष्वष्कमाणस्य वेगेन गच्छतो मेघस्य नाद इति शङ्कया विष्वक् परितः परित्रौकिते सचारिते लोचने यैः तथाभूतैः ॥-प्रश्वङ्कनेति । श्वङ्केल्युट् । उनङ्कितेति । त्रङ्के कर्तरि क्तः । अढौकीति । भावे चिण् । परित्रौकितेति । त्राकेः णिचि कर्मणि क्तः । विष्वष्कमाणेति । ष्वष्केः शानच् । 'सुब्धातुष्टिवुष्वष्कतीनां न' इति धात्वादेः षः साभावः ॥