पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १२३ परत्वाद् द्रष्टुमारब्ध इत्यर्थः । भोक्ष्यमाण आचरतीतिवत् । अन्तरिन्द्रियं मनः । तदानीमाभ्यन्तरतमे भगवद्रूपे एवात्याविष्टत्वेन बहिर्मनोवृत्तीनामसत्प्रायत्वात् अन्तरिन्द्रियत्वमेव मनसो जातमिति भावः । मुदि संतोषे समुद्रस्थानीये आस्कुन्दितमाप्लुतं स्नातं निमग्नमित्यर्थः । मुदायां स्कुन्दितमिति वा । हलन्तादपि वा टाप् स्यात् इत्याकारान्तस्यापि मुदाशब्दस्य सद्भावात् । अथवा मुदा हेतुना उत्प्लुत्य गतं कृतनर्तनमित्यर्थः । यद्वा मुदा कर्त्र्या उद्धृतमुन्नमितं वर्धितमिति यावत् । कीदृशं हरिं इत्यत्राह--गोकुलैधितं गोकुले प्रवृद्धम् । गोकुलं गोष्ठः । स्पर्धालुधीगाधितकार्यबाधिनं स्पर्धालूनां स्पर्धावतां धियि बुद्धौ गाधितं प्रतिष्ठितं लब्धस्थानमित्यर्थः । लिप्सतं वा कार्यं बाधितुं शीलं यस्य तम् । नाधितलोकनायक नाघितलोकस्य उपतृप्तजनस्य नाथकमीशितारं रक्षकमित्यर्थः । नाधितस्य प्रार्थितस्य निजलोकस्य आशीरूपेणानुग्रहितारं वा ॥-गान्दिनीभूरिति । गान्दिन्या भवत्युत्पद्यत इति गान्दिनीभूः । १ भू सत्तायाम् । उदात्तः परस्मैभाषः । अस्मात् 'क्विप् च' इति क्विप् । एधितमिति । २ एध वृद्धौ । एतदादयः कत्थान्ता उदात्ता अनुदात्तेतः। अस्मात् 'गत्यर्थाकर्मक-' इत्यादिना कर्तरि क्तः । स्पर्धालुरिति । ३ स्पर्ध संघर्षे । संघर्षः पराभिभवेच्छा । पराभिभवस्य धात्वर्थान्तर्भावादकर्मकः । अस्माद् 'गुरोश्च हलः' इत्यप्रत्यये स्पर्धा । स्पर्धा लात्यादत्ते मितद्र्वादित्वाद्डुः। ४ गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । आत्मयापनास्थानलाभश्च प्रतिष्ठा । एकत्र स्थापनं संदर्भो वा ग्रन्थः । संदर्भः शब्दविषयोऽर्थविषयोऽपि । अस्मात् कर्तरि कर्मणि वा क्तः । कार्यबाधिनमिति । ५ बाधृ लोडने। लोडनं प्रतिघातः । अस्मात् 'सुप्यजातौ णिनिः' इति णिनिः। नाधितलोकनाथकमिति । ६ नाधृ ७ नाथृ याञ्चोपतापैश्वर्याशीःषु । ऐश्वर्यमाधिपत्यं नियन्तृत्वं च । 'नृति-नन्दि-नार्द्दि-नक्कि-नाटि नाधृ-नाथृ-नृवर्जिताः सर्वे नादयो णोपदेशाः' इत्युक्त्या द्वावप्यणोपदेशौ । आद्यो णोपदेश इत्येके । आद्यात् कर्तरि कर्मणि वा क्तः द्वितीयाण् ण्वुल् । देधे । ८ दध धारणे । लिट् । स्कुन्दितम् । ९ स्कुदि आप्रवणे । आप्रवणमाप्लवनमुत्प्लुत्य गमनं वा । उद्धरणं बा । अस्मादिदित्त्वान्नुमि प्राग्वत् क्तः ॥

यद्यस्य भगवतीयान् प्रेमातिशयः तर्हि कथं पूर्वमेव न प्रस्थितवान् इत्यत्राह--- प्रश्विन्दिताशं यशसा पुराप्यसौ विवन्दिषुस्तं नतभन्दिनं विभुम् । स्वमन्दिरात्स्पन्दितुमेव नाशकत्कंसात्परिक्लिन्दितसज्जनाद्भिया ॥३॥ अपिरुभयत्र योजनीयः। असौ पुरा अपि तं विभुं विवन्दिषुरपि स्वमन्दिरात् स्पन्दितुमेव नाशकत् । असावक्रूरः । पुरापि पुरैव विवन्दिषुर्वन्दितुमिच्छुः । इहापिर्विरोधे । स्पन्दितुं किंचिदपि चलितुं नाशकत् न शक्तोऽभूत् । कीदृशम् । यशसा प्रश्विन्दिताशं प्रश्विन्दिताः सम्यग्धवलीकृता आशा दिशो येन तम् । नतभन्दिनं नतान् नमनकर्तॄन् भन्दयितुं सुखयितुं कल्याणवतः कर्तुं वा शीलं यस्य तम् । कंसात् भिया । हेतौ तृतीया ।


१. 'लोटने पाठः.