पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ काव्यमाला ।

न्वयः । वासुदेवो नाम केरलेषु पुरुवनग्रामजन्मा कश्चिद् द्विजन्मा । पाणिनेः सूत्राणि पाणिनिसूत्राणि तेषां मण्डलं समूहः उदाहृतमुदाहरणैः प्रकाशीकृतम् । अपर इत्यौद्धत्यपरिहाराय नामानुक्तिः । तदूर्ध्वत इति सप्तम्यर्थे तसिः। तस्य सूत्रोदाहरणस्योर्ध्वभागे धातूनुदाहरतीत्यर्थः । अन्योदाहरणकाव्येषु क्वचिदप्यदृष्टमिदमितीहातिशयं प्रतिपादयति--क्रमेणैवेति । अयं भावः-अस्ति तावद्दुर्लभप्रयोगाणामखिलधातूनामक्रमेणाप्येकत्रावगमे जिज्ञासूनां महानुपयोगः । इह पुनः क्रमेणैवोदाहरणादेतस्मिन् प्रकरणभागे एतावति योऽयं धातुरिति सम्यगवगम्यमाने श्रोतृजनस्य कौतुकातिशयः किमु वक्तव्य इति । हिशब्देन च क्रमेणैवेत्यस्यातुद्भूतत्वं सूचयतान्यान्यपि गणविभजनादीनि दुष्करतराण्यद्भुतान्यत्र भविष्यन्तीति सूचयति ॥ ननु धातुपाठानां बहुत्वात् कोऽयं क्रमोऽस्मिन्नाश्रीयत इत्यत्राह-वृकोदरोदितानिति । भीमसेनप्रणीतानित्यर्थः । न च भीमसेनप्रणीतत्वं प्रसिद्धिमात्रत्वादप्रामाणिकमिति मन्तव्यम् । 'तस्माद् भीमसेनस्याप्ययमेव पाठो युक्तः' इति पुरुषकार एव कथितत्वात् । ननु भीमसेनपाठस्यापि मैत्रेयादिधातुवृत्तिभेदकृतैः मतभेदादिभिः व्याकुलत्वाद् दुःसाधमुदाहरणमित्याशङ्कयाह--माधवाश्रयादिति । माधवो नाम धातुवृत्तिकारः । तेन तद्रचितो ग्रन्थो लक्षणीयः । तद्रूपस्याश्रयस्यावलम्बस्य सद्भावादयमुदाहरति । अतो न दुःसाधत्वमिति । किं च । माधवस्य लक्ष्मीवल्लभस्य मधुकुलावतीर्णस्य पूर्णब्रह्मणः आश्रयात् सर्वात्मना शरीरकरणात् तत्करुणयैवेदं क्रियते । अतो न दुःसाधत्वमिति भावः । अपि च । माधव एवाश्रयः प्रतिपाद्यः । तस्माद्धेतोरेवेदं क्रियते । अतो माधवविषयकथाकथनचिन्तनाद्यर्थमेव क्रियमाणत्वात् सदोषमपि खेदाय न भवतीति भावः । एवं च माधवाश्रयादित्यनेनैवेष्टदेवतानुस्मरणमपि कृतं वेदितव्यम् । 'कंसहिंसाप्रबन्धार्थो वीरभक्त्यादयो रसाः । त्रिभिर्दिनैः कृतं कर्म त्रिभिः सर्गैश्च कथ्यते ॥ अक्रूरयोगो यात्रादिचापच्छेदान्तचेष्टितम् । मल्लोद्योगादिकं सान्तपर्यन्तं च त्र्यहे कृतम् ॥ धातुपाठे च भूवादिभूयान् भवति तत्र च । अगणः प्रथमो भागो द्यूताद्यो गणवान् परः ॥ अनयो रगणो भागः प्रथमः सर्ग उच्यते । द्वितीयभागमारभ्य तुदाद्यन्तं द्वितीयके ॥ रुधादितश्चुराद्यन्तं तृतीयेनोपवर्ण्यते । व्यज्यते गणभेदादिः कथाभेदादिलाञ्छनैः ॥ तात्पर्यभेदाद्योज्यन्ते तुल्यार्था अपि धातवः ॥'

अथैवंभूतं काव्यमारभते-- स गान्दिनीभूरथ गोकुलैधितं स्पर्धालुधीगाधितकार्यबाधिनम् । द्रक्ष्यन्हरिं नाधितलोकनाथकं देधे मुदास्कुन्दित्तमन्तरिन्द्रियम् ॥२॥ अथ स गान्दिनीभूर्हरिं द्रक्ष्यन् अन्तरिन्द्रियं मुदास्कुन्दितं देधे । अथ श्रीकृष्णानयनार्थं कंसनियोगानन्तरं स तत्तादृशभगवद्भक्तिशाली गान्दिनीतो भवत्युत्पद्यते इति गान्दिनीभूरक्रूरः। गान्दिनी श्ववल्कभार्या । द्रक्ष्यन्निति भविष्यत्प्रत्ययस्यात्रासन्नभविष्यत्काल-


१. 'शरणीकरणात् पाठः.

२. 'माश्रित्य पाठः.