पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

धातुकाव्यम् । १२१ स तान् तथा आदिश्य शश्वत् विष्णोर्भीरुकः सन् एतत् विश्वं तन्मयं विष्णुमयं न्यध्यासीत् दृष्टवान् । देवद्रीचा देवान् प्राप्नुवता दोःपटिम्ना सामर्थ्येन अम्रदिष्ठान् अमृदुतमान् । अत्यन्तीनान् अत्यर्थं गमनशीलान् । वश्यान् वशंप्राप्तान् । घातुकान् दैत्यहननशीलान् ॥-अत्यन्तीनानिति । 'अवारपारात्यन्तानुकामंगामी' इति खः । वश्यानिति । 'वशं गतः' इति यत् । भीरुक इति । 'भियः क्रुकन्निति वक्तव्यम्' । 'भीलुकः' इति वा पाठः ॥

अध्वनीनकथिताननुशृण्वन्नन्दगोपसुतसंभवजन्यान् । उत्सवान्व्रजपदे हरिमर्चञ्जायया स मुमुदे वसुदेवः ॥ ७९ ॥ स वसुदेवो जायया सह मुमुदे । व्रजपदे अध्वनीनकथितान् नन्दगोपसुतसंभवजन्यान् तेन जातान् उत्सवान् अनुशृण्वन् हरिमर्चन् पूजयन् ॥--अध्वनीनेति । 'अध्वनो यत्खौ' । अनुशृण्वन्निति । 'श्रु श्रवणे' । अस्माल्लट् । 'लः परस्मैपदम्' इति परस्मैपदसंज्ञा । 'शेषात्कर्तरि परस्मैपदम्' । मुमुद इति । 'तडानावात्मनेपदम्' इत्यात्मनेपदसंज्ञा । 'तिडस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः' इति प्रथमपुरुषसंज्ञा । शेषे प्रथमः' इति प्रथमपुरुषः । 'तान्येकवचनद्विवचनबहुवचनान्येकशः' इत्येकवचनसंज्ञा । 'द्व्येकयोर्द्विचनैकवचने' इत्येकवचनम् । स इति । 'सुपः' इति वचनसंज्ञा । 'विभक्तिश्च' इति सुपां तिङां च विभक्तिसंज्ञा । 'त्यदादीनामः' इति विभक्तावकारादेशः । जाययेति । 'आडि चापः' इत्येकारः । 'परः संनिकर्षः संहिता' इति संहितासंज्ञायां 'एचोऽयवायावः' इत्ययादेशः । वसुदेव इति । 'विरामोऽवसानम्' इत्यवसानसंज्ञायां 'खरवसानयोर्विसर्जनीयः' ॥

इति वासुदेवकृते वासुदेवविजयकाव्ये पदचन्द्रिकाख्यया व्याख्यया समेतस्तृतीयः सर्गः ।



धातुकाव्यम् ।

स्मरत हरेर्मधुरतरं मुरलीनिनदामृतं हि शब्दमयम् । पदयुगलं च भवान्या महिषारेर्मुक्तिनिलयवासिन्याः ॥ गुरुपादाब्जसंसेवानितान्त विमलाशयैः । सतीर्थ्यैरद्य लिख्यन्ते धातुकाव्यार्थलोचनाः ॥

अथ वासुदेवकविविरचितस्य वासुदेवविजयाभिधस्य काव्यरत्नस्य शेषपरिपूरणाय चिकीर्षितं प्रतिजानीते--

उदाहृतं पाणिनिसूत्रमण्डलं प्राग्वासुदेवेन तदूर्ध्वतोऽपरः । उदाहरत्यद्य वृकोदरोदितान्धातून्क्रमेणैव हि माधवाश्रयात् ॥ १ ॥

वासुदेवेन प्राक् पाणिनिसूत्रमण्डलमुदाहृतम् । अद्यापरस्तदूर्ध्वतो धातूनुदाहरति इत्य-