पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । ११९ करीः। या आशितंभवं तृप्तिसाधनभूतं निर्मन्तुं निरपराधं तृणचयं खादित्वा हविर्ददति॥-स्तनंधयीरिति । 'धेट् पाने' । 'नासिकास्तनयोर्ध्माधेटोः' इति खश् । धेटष्टित्वात् 'टिड्ढाणञ्-' इति डीप् । कूलमुद्रुजा इति । रुजो भङ्गे । 'उदि कूले रुजिबहोः' इति खश् । आशितंभवमिति । 'आशिते भुवः करणभावयोः' इति करणे खच् । आशितस्तृप्तो भवत्यनेनेति । प्रष्ठौहीरिति । पञ्चमे षष्ठे वा वर्षे वहतीति । 'वहश्च' इति ण्विः । उपधावृद्धिः। प्रष्ठवाहशब्दात् डीप् 'वाह ऊठ्' इति वकारस्य संप्रसारणम् । 'एत्येधत्यूठ्सु' इति ऊठि पूर्वपरयोर्वृद्धिः । समांसमीना इति । 'समा समां विजायते' इति खः ॥

द्वैरात्रिका ये शिशवस्त्र्यहीना मास्या भुवि द्वैसमिका: समीनाः । तान्पञ्चमास्यानपि च त्रिवर्षान्सर्वान्प्रहन्मोऽद्य तवापदर्थम् ॥ ७२ ॥ वयमद्य तव आपदर्थमापन्निवृत्तये तान् सर्वान् शिशून् प्रहन्मः। कान् । भुवि ये द्वैरात्रिका द्वेरात्रीभूताः । त्र्यहीनाः । त्रीण्यहानि भूताः । मास्याः मासं भूताः । द्वैसमिकाः द्वैसमे भूताः । समीना समा भूताश्च शिशवः सन्ति तान् । तथा पञ्चमास्यान् पञ्च मासान् तान् । अपि च त्रिवर्षान् त्रीणि वर्षाणि भूतांश्च ॥-मास्यानिति । 'मासाद्वयसि यत्खञौ' इति यत् । पञ्चमास्यानिति । 'द्विगोर्यप्' । समीना इति । 'समायाः खः' । द्वैसमिका इति । 'द्विगोर्वा' इति खाभावपक्षे ठञ् । द्वैरात्रिका इति । 'रात्र्यहःसंवत्सराच्च' इति ठञ् । त्र्यहीना इति । तेनैव खः । त्रिवर्षानिति । चित्तवति नित्यम्' इति खठञोर्लुक् ॥

न तेऽस्त्यभिज्ञा सहकुष्ठलाधिपं विजेष्यते संयति राजकं भवान् । न वाभिजानासि विकत्थिनः सुरान्यदप्रतिस्तब्धपराक्रमोऽजयः ॥७३॥ ते अभिज्ञा स्मृतिर्नास्ति किम् । भवान् संयति सहकुष्ठलाधिपं कुत्सितस्थलाधिपतिसहितं तं राजकं राजसमूहं विजेष्यते जितवान् । नाभिजानासि वा । विकत्थिनः श्लाघाशीलान् सुरान् अप्रतिस्तब्धपराक्रमोऽनभिभूतपराक्रमः सन् अजय इति यत्॥-विजेष्यते इति । 'अभिज्ञावचने लुट्' इत्यनद्यतनभूते लृट् । अजय इति । 'न यदि' इति लृडभावे लङ् । कुष्ठलेति । 'विकुशमिपरिभ्यः स्थलम्' इति षत्वम् । अप्रतिस्तब्धेति । 'प्रतिस्तब्धनिस्तब्धौ च' इति षत्वाभावो नियात्यते ॥

इदमपि तवाभिज्ञातं यत्क्षणेन दिशांपती- नपि युधि भवान्भङ्क्ष्यत्येषां हरिष्यति वा वसु । तितनिषसि यत्कस्त्वं श्वासो निवारयिता ततः परिपरि परं धर्माधर्मावपास्य बलीयसः ॥ ७४ ॥ इदं तवाभिज्ञातमपि भवान् युधि दिशांपतीन् अपि क्षणेन भङ्क्ष्यति भग्नवान् । एषां वसु हरिष्यति वा हृतवांश्च । यत् तितनिषसि ततः तस्मात् श्वासः प्राणान् सन् को नि-