पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११८ काव्यमाला । भूतार्थदृश्वन्नथ राजयुध्वन्नस्माभिरेतैः सहकृत्वभिस्ते । न खल्वसाध्यो दिविजोऽपि सोऽजः किमु क्रशीयो मनुजत्वमीतः ६८ अयि भूतार्थदृश्वन् परमार्थ दृष्टवन् , राजयुध्वन् राज्ञो योधितवन् तैरस्माभिः सहकृत्वभिः सहकृतवद्भिः सहायभूतैर्दिविजोऽपि सोऽजस्तेन खलु असाध्यः, अपि तु मारयितव्य एव । क्रशीयः कृशतरं मनुजत्वमीतः प्राप्तः । किमु ॥-भूतार्थदृश्वन्निति । कर्मण्युपपदे 'दृशेः क्वनिप्' । राजयुध्वन्निति । राजनि युधि कृञः' । युधिरन्तर्भावितण्यर्थत्वात् सकर्मकः । युध्यमानं राजानं यदापरःप्रेरयति युध्यस्वेति तदा युधिःप्रयोज्येन सकर्मकः । सहकृत्वभिरिति । 'सहे च' इति क्वनिप् । दिविज इति । 'सप्तम्यां जनेर्डः' । 'प्रावृट्शरत्कालदिवां जे' इत्यलुक् । अज इति । 'अन्येष्वपि दृश्यते' इति डः । ईत इति । 'ई गतौ' । 'निष्ठा' इति भूते क्तः ॥

त्वदनुजात्मजा साथवा प्रजा कथमिवैद्वपुस्तादृशं क्षणात् । हृतविभूतयः शाम्बरीं सुरा न किमदीदृशन्मेह विश्वसीः ॥ ६९ ॥ अथवा त्वदनुजात्मजा सा प्रजा कथमिव तादृशं वपुः क्षणादैत् प्राप्ता । त्वया हृतविभूतयः सुराः शाम्बरीं मायां तादृशीं न किमदीदृशन् अदर्शयन् । इह अस्मिन्नर्थे मा विश्वसीः विश्वासं कार्षीः ॥—आत्मजेति । 'पञ्चम्यामजातौ' इति डः । प्रजेति। 'उपसर्गे च संज्ञायाम्' इति डः । त्वदनुजेति । त्वामनुजाता त्वदनुजा । 'अनौ कर्म-' इति डः। अदीदृशन्निति । 'लुडि' इति भूते लुड् । ऐदिति । 'अनद्यतने लड्' 'आडजादीनाम्' इत्याडागमः । विश्वसीरिति । 'न माड्योगे' इति अडाटोरभावः ॥

ये यज्वानः शुश्रुवांसः श्रुतीनामर्थाच्छान्तिं सर्वदोपेयिवांसः । तेषां घात: स्याज्जरद्ब्राह्मणानां घातो विष्णोस्ते यदस्यैकमूर्तिः ॥ ७० ॥ ये जरद्ब्राह्मणा यज्वान इष्टवन्तः श्रुतीनामर्थान् शुश्रुवांसः श्रुतवन्तः, सर्वदा शान्ति मनोजयमुपेयिवांसः प्राप्तवन्तश्च, तेषां जरद्ब्राह्मणानां वृद्धानां ब्राह्मणानां घातो विष्णोर्घातः स्यात् । ते अस्य एकमूर्तिः प्रधानशरीरं यत् ॥-जरदिति । 'जीर्यतेस्तृन्'। शुश्रुवांस इति । 'भाषायां सदवसश्रुवः' इति लिटः क्रसुः । उपेयिवांस इति । 'उपेयिवाननाश्वाननूचानश्च' इति निपातनम् । ब्राह्मणानामिति । ब्रह्मणोऽपत्यार्थेऽण् । अजातादेव लिटि लोपः॥

खादित्वा तृणचयमाशितंभवं या निर्मन्तुं ददति हविः समांसमीनाः । प्रष्ठौहीरवनिप कूलमुद्रुजास्ता हन्मो गा: परिभविनीः स्तनंधयीर्वा ॥ ७१ ॥ हे अवनिप, ता गाश्च हन्मः । समांसमीनाः प्रत्यब्दं सूयमानाः । प्रष्ठौहीः बाल्य एव गर्भिणीः । स्तनंधयोः अतिबालाश्च । कूलमुद्रुजाः कूलं भिन्दतीः । परिभाविनीः अस्मत्परिभव-