पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । ११७

अतिसक्ततयैव मामकीने हितकृत्ये मम सा हि भागिनेयी । भुवि सुस्थमुपादिशद्रिपुं मे वितथाभूशरीरिणी तु वाणी ॥ ६४ ॥ सा मम भागिनेयी स्वसुरपत्यं मामकीने हितकृत्येऽतिसक्ततयैव मे रिपुं भुवि सुस्थमुपादिशत् । अशरीरिणी वाणी वितथा असत्या अभूत् ॥-सुस्थमिति । 'सुः पूजायाम्' इति कर्मप्रवचनीयसंज्ञा । अतिसक्ततयेति । 'अतिरतिक्रमणे च' इति चकारात् पूजायां कर्मप्रवचनीयसंज्ञा । मामकीने इति । खञि 'तवकममकावेकवचने' इति अस्मदो ममकादेशः॥

प्रणिजगदुरथासुरा नरेन्द्रं नृप किमिदं भवति ह्यधि त्रिलोकी । कमलभवमपि स्वजेत भीतिस्त्वयि रुषिते किमुताल्पकं कृतान्तम् ६५ अथ असुरा नरेन्द्र प्रणिजगदुरुक्तवन्तः । हे नृप, किमिदं वैक्लव्यम् । त्रिलोकी भवति अधि हि भवत्स्वामिकं त्रैलोक्यम् । त्वयि रुषिते कमलभवमपि भीतिः स्वतेज आलिङ्गितुं संभाव्यते । अल्पकं कृतान्तं किमुत॥--अपीति । 'अपिः पदार्थसंभावनान्ववसर्गंगर्हासमुच्चयेषु' इति संभावनायां कर्मप्रवचनीयसंज्ञा । लिङ् च संभावने । अधीति । 'अधिरीश्वरे' इति कर्मप्रवचनीयसंज्ञा । भवतीति 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी' इति सप्तमी ॥

ब्रूमो वयं संप्रति पश्य तावद्द्वित्रैर्दिनैरेव भवन्तमेत्य । निजेन दण्डेन भियापमित्य याचिष्यति स्वं न स जीवितं किम् ॥६६॥ वयं संप्रति ब्रूमः । पश्य तावत् । स कृतान्तो भिया द्वित्रैर्दिनैरेव भवन्तमेत्य निजेन दण्डेनापमित्य प्रहृत्य स्वं जीवितं कि न याचिष्यति । कृतान्तो भवन्तं याचित्वा निजेन दण्डेन भवदधीनं स्वजीवितं व्यतिभास्यति व्यतिहरिष्यते ॥-अपमित्येति । 'उदीचां माडो व्यतीहारे' इति उत्तरकाले क्त्वा विधीयते । गतिसमासे 'भयतेरिदन्यतरस्याम्' इतीत्वम् ॥

विप्रैः सुराविक्रयिणां विरोपिभिश्चिन्वद्भिरग्नीन्रथचक्रचिन्मुखान् । आदृत्यकर्मा यदि सोऽन्यभुव्यभूत्तस्याधिकुर्मः क्षणमञ्जसोष्णकाः ६७॥ स कन्यकोक्त्या द्योतितो विष्णुर्यद्यन्यभुव्यभूत् तर्हि अञ्जसा तस्य क्षयमधिकर्मः । विप्रैरादृत्यकर्मा । सुराविक्रयिणां विरोपिभिः रथचक्रचिन्मुखान् अग्नीन् चिन्वद्भिरुष्णका उष्णमिव शीघ्रं कुर्वन्तः । अधिकुर्मः।-क्षयमिति । 'विभाषा कृञि' इत्यधेर्वा कर्मप्रवचनीयसंज्ञा । कर्मण्येवात्र द्वितीया । रथचक्रचिदिति । 'कर्मण्यग्न्याख्यायाम् इति क्विप् । रथचक्रवञ्चीयत इति संज्ञैषा । 'रथचक्रचितं चिन्वीत भ्रातृव्यवान्' इति श्रुतिः । सुराविक्रयिणामिति । 'कर्मणीनि विक्रयः' इति इनिः । कुत्सानिमित्तमिह कर्म । उष्णका इति । 'शीतोष्णाभ्यां कारिणि' इति कन् । अभूदिति । 'लुङ्लङ्लुङ्क्ष्वडुदात्तः' ॥ द.१२