पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११६ काव्यमाला । यसंज्ञा । अभीति । 'अभिरभागे' इति कर्मप्रवचनीयसंज्ञा । स्थीयते इति । 'घुमास्थागापाजहातिसां हलि' इति हलादौ क्वित्यकारस्येकारः ॥

क्षीबा ये चारण्यकाः पा(प)र्वतीया दुर्देशस्थाः सन्ति सामुद्रका वा। यौष्माकीणेनैव वीर्येण सर्वेऽप्यास्माकत्वं प्रापितास्तेऽक्लिशित्वा॥६१॥ ते सर्वेऽपि यौष्माकीणेन युष्मत्संबन्धिना वीर्येण अक्लिशित्वा अनायासेन । आस्माकत्वं अस्मदीयत्वं प्रापिताः । के ये आरण्यका अरण्ये भवाः । पा(प)र्वतीयाः पर्वते भवाः । दुर्देशस्था यवनादयः । ये वा सामुद्रकाः समुद्रे भवाः सन्ति ते क्षीबा वीर्यादिना मत्ताः ॥-सामुद्रका इति । 'धूमादिभ्यश्च' इति वुञ्। 'समुद्रान्नावि मनुष्ये च वुञिष्यते'। आरण्यका इति । 'अरण्यान्मनुष्ये' ! 'पथ्यध्यायन्यायविहारमनुष्यहस्तिष्विति वक्तव्यम्' इति वुञ् । शैषिकः । पा(प)र्वतीया इति 'पर्वताच्च' [इति छः] यौष्माकीणेनेति । 'युष्मदस्मदोरन्यतरस्यां खञ्च' इति खञ् । 'तस्मिन्नणि च युष्माकास्माकौ' इति युष्माकादेशः । आस्माकेति । अन्यतरस्यां ग्रहणादण् । तस्मिन्नस्साकादेशः । दुर्देशस्था इति । 'आतो लोप इटि च' इत्याकारलोपः । क्षीबा इति । 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निपातितः ॥

स्थेयात्स्वामी शक्रत: प्रत्यशद्रुः प्रम्लेयासुश्चास्य सर्वोपसर्गाः । प्रग्लायासुः शत्रवश्चेति मां प्रत्याशंसध्वे गृघ्नवो यूयमेव ॥ ६२ ॥ यूयमेव मां प्रति लक्षणीकृत्य इति आशंसध्वे इच्छथ । गृध्रव इच्छाधर्माणः। कथम् । अस्माकं स्वामी अशद्रुरनवसन्नः शक्रतः प्रति शक्रस्य प्रतिनिधिः सन् स्थेयान् । अस्य सर्वोपसर्गाः सर्वोपद्रवाः प्रम्लेयासुः म्लाना भूयासुश्च । शत्रवः प्रग्लायासुः ग्लानाः सन्तु च ॥-प्रतीति । 'प्रतिः प्रतिनिधिप्रतिदानयोः' इति कर्मप्रवचनीयसंज्ञा । 'प्रतिनिधिप्रतिदाने च यस्मात्' इति तद्योगे पञ्चमी । 'प्रतियोगे पञ्चम्यास्तसिः' । स्थेयादिति । 'एर्लिडि' इति घुमास्थादीनामेकारः । प्रम्लेयासुरिति । प्रग्लायासुरिति । 'वान्यस्य संयोगादेः' इति वा एत्वम् । स्वामीति । 'स्वामिन्नैश्वर्ये' इति निपातितः ॥

कुतोऽभ्युपेयाद्विपदीदृशानित्येतां धियं तावदतो विहाय । मृत्युं विहन्तुं मम यस्यत स्म प्राप्तामिमां यस्यत यस्यतेति ॥ ६३ ॥ अतो यूयमीदृशान् कुतः केन प्रकारेण विपत् अध्युपेयात् प्राप्नुयात् इत्येतां धियं तावद्विहाय मम प्राप्तामासन्नत्वेन श्रुतामिमां मृत्युं विहन्तुं यस्यत यस्यतेति यस्यत स्म भृशं यत्नं कुरुत ॥-अधीति । 'अधिपरी अनर्थकौ' इति कर्मप्रवचनीयसंज्ञा । धात्वर्थव्यतिरेकेणार्थस्यानभिधानात् संज्ञायाः प्रयोजनं स्वरविषयम् । विहायेति । 'न ल्यपि' इति घुमास्थादीनामित्वाभावः । यस्यत स्मेति । 'अधीष्टे च' इति स्मे लोट् ॥