पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । ११५ सन्परे णौ च संप्रसारणम् । संप्रसारणस्य बलीयस्त्वात् 'शाच्छासाह्वाव्यावेपां युक्' इति प्रागेव युड् न भवति ॥ अधपूतनाबकमुखा बलिनः परिवादिनः सततमग्निचिताम् । नितरामपारिमुखिकेन नृणामधिपेन तेऽथ सदकारिषत ।। ५८ ॥ अथ अघपूतनाबकमुखास्ते नृणामधिपेन नितरां सदकारिषत सत्कृताः । बलिनः । अनिचितामग्निं चितवता सततं परिवादिनोऽपवादशीलः। अपारिमुखिकेन सौमुख्यवता॥-अग्निचितामिति । 'अग्नौ चेः' इति क्विप् । सदकारिषतेति । कृञः कर्मणि लुङि 'स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च' इत्युपदेशेऽजन्तत्वाच्चिण्वद्भाव इडागमश्च । 'चिण्वद्वृद्धिर्युक्च हन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वा चिणीति। इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विधाती ॥' इति चिण्भावयोजनम् ॥

सुभृशमुपदिदीये मृत्युभीत्या मदीयं हृदयमनु च यः स्वं वीर्यतोऽमंस्त विश्वम् । स्वजनमपरिमेयक्रौर्यमोजायमानं नृपतिरथ स पश्यन्प्रण्यगादीप्रणेयम् ॥ ५९ ॥ अथ नृपतिः स्वजनं पश्यन् आलोकनेन संभावयन् प्रण्यगादीत् उक्तवान् । मदीयं हृदयं मृत्युभीत्या सुभृशमुपदिदीये क्षीणमभूत् । यश्च विश्वं वीर्यतः स्वमनु आत्मनो हीनममंस्त । अपरिमेयक्रौर्यम् । ओजायमानमोजस्विनं भवन्तम् । प्रणेयं वश्यम् ॥--ओजायमानमिति । 'ओजसोऽप्सरसोर्नित्यम्' इति क्यडि सलोपः। अन्विति । 'हीने' इति कर्मप्रवचनीयसंज्ञा । उपदिदीये इति । 'दीड् क्षये । 'दीडो युडचि क्डिति' इति युडागमः । परिमेयेति । 'माड् माने' । 'अचो यत्' । 'ईद्यति' इत्याकारस्येकारः। प्रण्यगादीदिति । अड्व्यवायेऽपि नेर्गदादिषु णत्वमिष्यते ॥

सर्वोऽपि यानुप गुणैर्जगतीह तेषां न स्थीयते नहि मया जननाद्वशे वः । तेभ्यश्च युष्मदप मे सुहृदोऽनुकार्यं नैवास्ति वर्तनमपि स्थ च मां सहार्दाः ॥ ६० ॥ हे सुहृदः, इह जगति सर्वोऽपि जनो गुणैर्यानुप हीनो भवति । मया तेषां वो वशेऽधीनत्वे आ जननात् जननमारभ्य नहि न स्थीयते अपि तु स्थीयत एव । तेभ्यो युष्मत् अप तान् युष्मान् वर्जयित्वा मे अनुकार्यं कार्ये कार्ये वर्तनं च नैवास्ति । मामभि लक्षणीकृत्य सहार्दाः सस्नेहाः स्थ भवथ च ॥-उपेति । 'उपोऽधिके च' इति चकाराद्धीने कर्मप्रवचनीयसंज्ञा । अपेति । 'अपपरी वर्जने' इति कर्मप्रवचनीयसंज्ञायां 'पञ्चम्यपाड्परिभिः' इति तद्युक्ते पञ्चमी । आ जननादिति । 'आड् मर्यादावचने' इति कर्मप्रवचनी-