पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११४ काव्यमाला इत्ति प्रहासे मध्यमोत्तमयोः प्राप्तयोरुत्तममध्यमौ विधीयते । ब्रुवे इति । 'अस्मद्युत्तमः' इत्युत्तमपुरुषः । हनिष्यतीति । 'शेषे प्रथमः' इति प्रथमपुरुषः ॥ ग्रामेयकैर्नागरकैश्च लोकर्निरीक्ष्यमाणा सह राजकीयैः । कर्मन्दिवन्द्या प्रकथय्य सैवं तिरोदधेऽनु स्तनयित्नुपद्याम् ॥ ५५ ॥ सा देवी एवं प्रकथय्य स्तनयित्नुपद्यां मेधमार्गमनु तिरोदधे । राजकीयैः राजसंवन्धिभिर्ग्रामेयकैर्ग्रामेभवैर्नागरकैः प्रवीणैर्नगरभवैश्च लोकैर्निरीक्ष्यमाणा कर्मन्दिवन्द्या कर्मन्दप्रोक्तं भिक्षुसूत्रमध्यायिनः कर्मन्दिनः ॥–कर्मन्दीति । 'कर्मन्दकृशाश्वादिनिः'। अनु स्तनयित्नुपद्यामिति । 'स्तन गदी देवशब्दे' चुरादिः औणादिक इत्नुच् । 'अयामन्ताल्वाय्येन्त्विष्णुषु' इति णेरयादेशः। पादाय हिता पद्या । 'शरीरावयवाद्यत्'। 'पद्यत्यतदर्थे' इति पद्भावः। अन्विति । 'कर्मप्रवचनीयाः' 'अनुर्लक्षणे' इति कर्मप्रवचनीयसंज्ञा । 'कर्मप्रवचनीययुक्ते द्वितीया' प्रकथव्येति । कथयतेर्ल्यप् । 'ल्यपि लघुपूर्वात्' इति णेरयादेशः ग्रामेयकैरिति । 'कन्न्यादिभ्यो ढकञ् । नागरकैरिति । 'नगरात्कुत्सनप्रावीण्ययोः' इति वुञ् । राजकीयैरिति । 'राज्ञः क च' इति छः । कश्चान्तादेशः ॥ व्यामोहमन्ववसितेन हृदा नृपोऽपि प्रक्षीय सोऽक्षितधियौ निगलाद्विमोक्षम् । प्रापय्य शौरिमथ तां भगिनी च वाक्यै- रक्षीणसौहृदमपेतशुचावतानीत् ॥ ५६ ॥ अथ स नृपोऽपि हृदा प्रक्षीय क्षीणचित्तो भूत्वा अक्षीणसौहृदं शौरि तां भगिनीं च निगलात् विमोक्षं प्रापय्य वाक्यैरपेतशुचावतानीत् । व्यामोहं अनु व्यामोहेन अवसितेन संबद्धेन । अक्षितधियौ अदीनमनसौ ॥–अन्विति । 'तृतीयार्थे' इति कर्मप्रवचनीयसंज्ञा । तद्योगे द्वितीया । प्रापय्येति । 'विभाषापः' इति णेर्वायादेशः । प्रक्षीयेति । 'क्षियः' इति ल्यपि दीर्घः । अक्षीणेति । कर्तरि 'निष्ठायामण्यदर्थे' इति दीर्घः । अक्षितेति । कर्तरि निष्ठा । 'वा क्रोशदैन्ययोः' इति वा दीर्घः ॥ असकृत्कृतवृत्रहाभिषङ्गः सुकृतां सोमसुतामसोढसौख्यः । गृहमेत्य स भागिनेयघाती द्रुतमाजूहवदात्मनः सहायान् ॥ ५७ ॥ स गृहमेत्य द्रुतमात्मनः सहायान् आजूहवत् आह्वाययामास । असकृत्कृतवत्रहाभिषङ्गः कृतेन्द्रपरिभवः । सुकृतां सोमसुत्ता सोमं सुतवतां सोमयाजिनामसोढसौख्योऽसोढतत्सुखः ॥-भागिनेयघातीति 'कर्मणि हनः' इति णिनिः । 'कुत्सितग्रहणं कर्तव्यम् । वृत्रहेति । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' । सुकृतामिति । 'सुकर्मपापमन्त्रपुण्येषु कृञः' इति क्विप् । सोमसुतामिति । 'सोमे सुञः' इति क्विप् । आजूहवदिति । ह्वयतेर्णिच् । 'ह्वः संप्रसारणम्' इति