पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बासुदेवविजयम् । ११३ शचारिवनिताभिरुपास्यमाना ॥--मनसिकृत्येति । 'अनत्याधान उरसिमनसी' इति गतिसंज्ञा । आकाशचारीति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । आभीक्ष्ण्यं तात्पर्यम् । बेभिदित्रीति भिदेर्यडन्तात् तृन् । 'यस्य हलः' इति साकच्कस्य यकारस्य लोपः । संयतित्रीति । 'यम उपरमे' क्विप् । 'गमः क्वौ' इत्यनुवृत्तौ 'गमादीनामिति वक्तव्यम्' इत्यनुनासिकलोपः । संयत् स्त्रियां पुंसि वा । तत इच्छार्थे क्यच् । तदन्तात् तृन् । 'क्यस्य विभाषा' इति यलोपः॥

मित्त्रस्य कंस जगतां परकीयमानी मा भूर्ममोरसि कुरुष्व वचो मदीयम् । भावत्कमीप्सितमिदं विफलं त्वया य- त्पाणौकृता बत पुरा विधवा भवन्ति ॥ ५२ ॥ हे कंस, त्वं मम परकीयमानी मा भूः मां परकीयां मा मन्यस्व । जगतां मित्त्रस्य मदीयं वच उरसि कुरुष्व अङ्गीकुरु । भावत्कं भवदीयमीप्सितं विफलं यत् तत् त्वया पाणौ कृताः परिणीताः स्त्रियः पुरा विधवा भवन्ति आशु भविष्यन्तीत्यर्थः॥-पाणौ कृतेति। 'नित्यं हस्ते पाणावुपयमने' इति गतिसंज्ञा । 'ते प्राग्धातोः' इति गत्युपसर्गाणां धातोः प्राक्प्रयोगः। मदीयमिति । 'त्यदादीनि च' इति वृद्धसंज्ञायाम् 'वृद्धाच्छः' । भावत्कमिति 'भवतष्ठक्छसौ'। परकीयमानीति । परशब्दाद् 'गहादिभ्यश्च' इति छः। 'कुग्जनस्य परस्य च' इति कुगागमः । मानीति । 'मनः' इति णिनिः । 'क्यड्मानिनोश्च' इति पुंवद्भावः ॥

योऽभूच्छूरंमन्य जन्मान्तरे ते हन्ता कश्चित्सोऽधुना मर्त्यभावम् । मध्येकृत्य ख्यातिमान्नाशकस्त्वां शुम्भत्युच्चैः क्वापि सद्वर्णितौजाः ॥५३॥ हे शूरमन्य, यो जन्मान्तरे ते हन्ता कश्चित् अभूत् सोऽधुना मर्त्यभावं मध्येकृल त्वां नाशकः त्वां नाशयितुं क्वापि देशे उच्चैः शुम्भति । ख्यातिमान् । सद्वर्णितौजाः ॥--मध्येकृत्येति । 'मध्येपदे निवचने च' इति गतिसंज्ञा । शूरंमन्येति । 'आत्ममाने खश्च' इति खश् । अतीताः प्रत्ययाः सार्वकालिकाः । नाशक इति । नश्यतेर्ण्य॑न्तात् ण्वुल् । 'णेरनिटि इति णिलोपः । वर्णितेति । वर्णयतेः क्तः । 'निष्ठायां सेटि' इति णिलोपः ॥

प्रियंकरं तं भुवि सोमयाजिनां मन्ये स्ववीर्येण हनिष्यसीति । ब्रुवे न तं हास्य हनिष्यसि ध्रुवं स त्वां तु राजन्नचिराद्धनिष्यति ५४ त्वं स्ववीर्येण तं हनिष्यामीति किं मन्ये मन्यसे । भुवि सोमयाजिनां प्रियंकरम् । अहं ब्रुवे-हे हास्य, त्वं तं न हनिष्यसि ध्रुवम् । हे राजन् , स तु त्वामचिरात् हनिष्यति ॥--सोमयाजिनामिति । 'भूते' इत्यधिकारे 'वर्तमाने लट्' इति यावत् 'करणे यजः' इति णिनिः । हनिष्यसीति । 'युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः' इति मध्यमपुरुषः । हनिष्यसि मन्ये इति । 'प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवञ्च'