पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । १०९

नाढ्यः समृद्धो भूतः । प्रियंभावुकतां गतेन प्रियतां प्राप्तेन । ऊर्मीन् दीव्यन्तमूर्मीभिः क्रीडन्तम् ॥-ऊर्मीनिति । 'दिवः कर्म च' इति कर्मसंज्ञा । मार्गे इति । 'आधारोऽधिकरणम्' इत्यधिकरणसंज्ञायां 'सप्तम्यधिकरणे च' । आढ्यभविष्णुरिति । प्रियंभावुकतेति । 'कर्तरि भुवः खिष्णुच्खुकञौ' आढ्यादिषूपदेषु । गोष्ठायेति । गावस्तिष्ठन्त्यस्मिन्निति 'घञर्थे कविधानम्' इति कः । 'अम्बाम्बगोभूमि' इति षत्वम् ॥

अध्यास्त यं नक्रकुलं स्थवीयो द्विपोऽप्यमङ्क्त्वा न यमुत्ततार । नभस्पृगूर्मिस्तितरीषतोऽस्य हरेर्दधस्यैकपदीमदात्सः ॥ ३८ ॥ स यमुनाप्रवाहस्तितरीषतस्तरितुमिच्छतोऽस्य वसुदेवस्यैकपदीं मार्गमदात् । नभःस्पृगूर्मिः । हरेर्दधस्य हरि दधतः । यं स्थवीयः स्थूलतरं नक्रकुलमध्यास्तावर्तत । यं द्विपोऽपि अमङ्क्त्वा नोत्ततार ॥--यमिति । 'अधिशीङ्स्थासां कर्म' इत्याधारस्य कर्मसंज्ञा । नभस्मृगिति । 'स्पृशोऽनुदके क्विन्' । अमड्क्त्वेति । 'जान्तनशां विभाषा' इति वा नलोपाभावः । द्विप इति । द्वाभ्यां करेणास्येन च पिबतीति । 'सुपि' इति योगविभागात् कः ॥

तावज्जनित्वा व्रजनाथपत्न्या मनो जनस्याभिनिविश्य देव्या । अभाजि निद्राच्छलतोऽर्थबोधः शक्त्या हरेः प्रागशिषद्यथा सः ॥३९॥ तावत् हरेः शक्त्या देव्या मायया व्रजनाथपत्न्या जनित्वा निद्राच्छलतो जनस्य मनो अभिनिविश्यार्थबोधो विषयज्ञानं अभाजि भग्नः । स हरिर्यथा प्रागशिषत् नियुक्तवान् ॥-मन इति । 'अभिनिविशश्च' इति कर्मसंज्ञा । अभाजीति । 'भञ्जेश्च चिणि' इति वा नलोपः। 'अभञ्जि' इति वा पाठः। अशिषत् । 'सर्तिशास्त्यर्तिभ्यश्च' इत्यड्। 'शास इदङ्हलोः' इति इत्वम् । 'शासिवसिघसीनाम्' इति षत्वम् ॥

जहि द्विषो वत्सक शाधि लोकानित्यात्मनाशंसुरथात्मजं स्वम् । शौरिर्यशोदाशयने न्यधात्तामादत्त चोत्तानशयां कुमारीम् ॥४०॥ अथ शौरिः स्वमात्मजं यशोदाशयने न्यधात् । तामुत्तानशयामुत्तानत्वेन शयानां कुमारीमादत्त च । हे वत्सक, द्विषो जहि वध्याः, लोकान् शाधि इति आत्मना आशंसुरिच्छ्रुः ॥---शाधीति । 'शा हौ' इति शासः शादेशः। 'असिद्धवदत्राभात्' इति शाभावस्यासिद्धत्वात् 'हुझल्भ्यो हेर्धिः' । जहीति 'हन्तेर्जः' इति हौ जादेशः।उत्तानशयामिति। 'उत्तानादिषूपसंख्यानम्' इत्यच् । 'पुंवत्कर्मधारय-' इति पुंवत्वम् ॥ गत्वा दधृग्धाम तत: स्वपत्न्या निधाय पल्यङ्कतले शिशुं ताम् । विरत्य कृत्यान्निगलार्पिताङ्घ्रिः सुखी स तत्पूर्ववदन्ववात्सीत् ॥ ४१ ॥ स ततो धाम स्वगृहं गत्वा स्वपत्न्याः पल्यङ्कतले तां शिशुं निधाय कृत्यात् विरत्य विरतो भूत्वा पूर्ववत् तद्धामान्ववात्सीत् । दधृक् प्रगल्भः । निगलार्पिताङ्घ्रिः । सुखी स्व-