पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ काव्यमाला । पुत्र्यसुकर्मभारभ्यः पुत्रनिमित्तं सुकर्म भजद्भ्यः । दशद्विषादोरगतार्क्ष्यमनुरज्यन्मनसः स्वयमेवानुरागं दधद् मनो येषाम् ॥-अस्मभ्यमिति । 'राधीक्ष्योर्यस्य विप्रश्नः' इति संप्रदानसंज्ञा । कार्तान्तिका इति । कृतान्तो दैवम् । 'तद्वेद' इति ठक् । उरगेति । उरसा गच्छतीति 'गमेर्डः' । 'उरसो लोपश्च' । अनुरज्यदिति । 'कुषिरजोः प्राचां श्यन्परस्मैपदं च'। कर्मकर्तरि । पुत्र्येति । 'पुत्राच्छ च' इति यत् । सुकर्मभाग्भ्य इति । 'भजो ण्विः'॥

अथानुरागस्यदविह्वलाभ्यां ताभ्यां प्रतिश्रुत्य तथेति वाञ्छाम् । स्यन्त्वेव सौहार्दभरेण देवस्तावूचिवानञ्चितमुग्धहासः ॥ ३४ ॥ अथ देवो वाञ्छां तथा इति ताभ्यां प्रतिश्रुत्य सौहार्दभरेण स्यन्त्वा इव तौ ऊचिवान् उक्तवान् । अनुरागस्यदविह्वलाभ्यां स्यदो वेगः । अञ्चितमुग्धहासः । अञ्चितः पूजितः ॥-ताभ्यामिति 'प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता' इति संप्रदानसंज्ञा । अनुरागेति । 'भावे घञ् । 'धञि च भावकरणयोः' इति लोपः । स्यदेति । स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । 'स्यदोजवे' । अञ्चितेति । 'नाञ्चेः पूजायाम्' इति नलोपाभावः। स्यन्त्वेति । ' क्त्वि स्कन्दिस्यन्दोः' इति नलोपाभावः ॥

प्राच्येऽपि वामङ्ग भवोभयस्मिन्सुतोऽभवं दिव्यवपुः प्रसद्रुः । तत्रत्यमुन्मीलयितुं मयेदं वृत्तं सुखं ह्यस्त्यमिवापि रूपम् ॥ ३५ ॥ अङ्ग अहं वा युवयोः प्राच्ये प्राग्भवे भवोभयस्मिन् जन्मद्वयेऽपि सुतोऽभवम् । दिव्यवपुः दिवि भवम् । प्रसद्रुः प्रसादशीलः । तत्रत्यं तत्र भवं वृत्तं ह्यस्त्यमिव गतदिवसजातमिव सुखमुन्मीलयितुं मया इदं रूपं आपि प्राप्तम् ॥--दिव्यप्राच्येति । 'द्युप्रागपागुदक्प्रतीचो यत्' । तत्रत्यमिति । 'अव्ययात्त्यप्' । अमेहकतसित्रेभ्यस्त्यविधिर्योऽव्ययात्स्मृतः । निनिर्भ्या ध्रुवगत्योश्च प्रवेशो नियमे तथा ॥' ह्यस्त्यमिति । 'ऐषमो ह्यः श्वसोऽन्यतरस्याम्' इति त्यप् ॥

भक्त्यै परिक्रीतमुपादानं वपुः शिशूनामुचितं पिता तम् । तत्प्रेरितात्मा नवराङ्कवत्वक्पर्यङ्किकाया जगृहे कराभ्याम् ॥ ३६ ॥ पिता तं नवरातवत्वक्पर्यङ्किकायाः कराभ्यां जगृहे । राङ्कवी रङ्कुसंबन्धिनी । शिशूनामुचितं वपुरुपाददानम् । भक्त्यै भक्त्या परिक्रीतम् । तत्प्रेरितात्मा अन्तर्यामिणा तेन प्रेरितबुद्धिः॥--भक्त्यै इति । 'परिक्रयणे संप्रदानमन्यतरस्याम्' इति वा संप्रदानसंज्ञा । कराभ्यामिते । 'साधकतमं करणम्' इति करणसंज्ञायां 'कर्तृकरणयोस्तृतीया' इति तृतीया । राङ्कवेति । 'रङ्कोरमनुष्येऽण्च' ॥

आढ्यंभविष्णुः प्रमदेन गच्छन्पथा प्रियंभावुकतां गतेन । स नन्दगोष्ठाय ददर्श मार्गे दीव्यन्तमूर्मीन्यमुनाप्रवाहम् ॥ ३७ ॥ नन्दगोष्ठाय पथा गच्छन् स मार्गे यमुनाप्रवाहं ददर्श । प्रमदेन आढ्यंभविष्णुः अ-