पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । १०७ तस्य स्मरन्तः स्वजीवितायापि न स्पृहयामहे इच्छामः । ते शपामहे शरीरं स्पृशाम इति शपथं कुर्महे शपथं ज्ञापयितुं इच्छामः ॥–ते इति । 'श्लाघहुङ्स्थाशपां ज्ञीप्स्यमानः' इति संप्रदानसंज्ञा । तस्मै इति । 'धारेरुत्तमर्णः' इति तत्तुल्यत्वात्संप्रदानसंज्ञा । स्पृहयामहे इति (स्वजीवितायापीति)। 'स्पृहेरीप्सितः' इति संप्रदानसंज्ञा । तस्येति 'अधीगर्थदयेशां कर्मणि' इति षष्ठी ॥

निषेवितो झार्झरपाणिघाद्यैः कौक्षेयकक्रूरतराग्रहस्तः । पुरायमैति श्रुतसंभवस्ते क्रुधं धियोऽन्धंकरणीं दधानः ॥ ३० ॥ अयं ते श्रुतसंभवः श्रुतत्वात्संभवः पुरा ऐति शीघ्रमागमिष्यति । धियो अन्धकरणीमन्धीभावकरणभूतां क्रुधं दधानः । कौक्षेयकक्रूरतराग्रहस्तः । कौक्षेयकः खड्गः । झार्झरपाणिघाद्यैर्निषेवितः । झर्झरवादनं शिल्पमस्येति झार्झरः ।।--पाणिघाद्यैरिति।पाणितलयोर्मिथो घट्टनेन वादनं कुर्वन्तः पाणिघाः । 'पाणिघताडघौ शिल्पिनि' । अन्धंकरणीमिति । 'आढ्यसुभगस्थूलपलितनग्मान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्'। कौक्षेयकेति । कुक्षिशब्दात् 'कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु' इति ढकञ् । यौगिकोऽपि रूढः । झार्झर इति । 'मड्डुकझर्झरादणन्यतरस्याम्' इति शिल्पेऽण् ॥

भक्तेष्वभिव्यक्तमिदं पिधाय बालोचितं रूपमुरीकुरुष्व । परिष्वजेमह्यचिराद्विभो त्वां गोपायितुं क्वापि पुनर्लषामः ॥ ३१ ॥ त्वमिदं रूपं पिधाय आच्छाद्य बालोचितं रूपमुरीकुरुष्वाङ्गीकुरुष्व । हे विभो, त्वामचिरात् परिष्वजेमहि तथा प्रार्थयामहे । पुनः क्वापि गोपायितुं रक्षितुं लषामः । भक्तेषु अभिव्यक्तम् । - अभिव्यक्तमिति 'अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु' क्त: 'अनिदितां हल उपधायाः क्लिति' इति नलोपः। परिष्वजेमहीति । 'दंशसञ्जस्वञ्जा शपि' इति नलोपः ॥

नादेयतोयागमदुर्निवारः पौरस्त्यपाकाहतिदृष्टकर्मा । क्रुध्यन्नहेतावपि नाथ सद्भ्यो माभिद्रुहत्त्वां सहसा स कंसः ।। ३२ ।। हे नाथ, कंसः सहसा त्वां मा अभिद्रुहत् । नादेयतोयागमदुर्निवारः । नद्या भवं नादेयम् । पौरस्त्यपाकाहतिदृष्टकर्मा पुरस्ताज्जातानां शिशूनां हनने दृष्टं कर्म यस्य । अहेतावपि सद्भ्यः क्रुध्यन् तान् प्रति क्रोधं कुर्वन् ॥---सद्भ्य इति । 'क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः' इति संप्रदानसंज्ञा । त्वामिति । 'क्रुधद्रुहोरुपसृष्टयोः कर्म' इति कर्मसंज्ञायां द्वितीया । नादेयमिति । 'नद्यादिभ्यो ढक्' । पौरस्त्येति। 'दक्षिणापश्चात्पुरसस्त्यक् ॥

येऽस्मभ्यमैक्षन्त विषद्रुहृद्भ्यः कार्तान्तिकाः पुत्र्यसुकर्मभाग्भ्यः । दशद्विषादोरगतार्क्ष्यमाहुस्ते त्वानुरज्यन्मनसः सुपानम् ॥ ३३ ॥ ये कार्तान्तिका दैवज्ञाः पृष्टा अस्मभ्यमैक्षन्त अस्माकं शुभाशुभं पर्यालोचितवन्तः । ते त्वां सुपानं अकृच्छ्रेण रक्षणीयमाहुः । विषद्रुहृद्भ्यः विषादनशीलं हृदयं येषाम् ।