पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ काव्यमाला । इति नुट्। 'नोपधायाः' इति दीर्घः । ईशितारमिति। 'ईश ऐश्वर्ये' । तृच् । 'अप्तृन्तृच्खसृनप्तृनेष्टृत्वष्टॄक्षत्तृहोतृपोतृप्रशातॄणाम्' इति दीर्घः ॥

वंहिष्ठ धामानमुपेयिवांसं मनुष्यलोकं पुरुषं महान्तम् । प्रशासितारं परिपन्थिनस्तमित्यब्रुवातां प्रियकारमुर्व्याः ॥ २५ ॥ तमित्यब्रुवाताम्। बंहिष्ठधामानमतिप्रवृद्धतेजसम्। मनुष्यलोकमुपेयिवांसं प्राप्नुवन्तम्। महान्तं पुरुषम् । परिपन्थिनः प्रशासितारम् ॥ उर्व्याः प्रियकारम् । बंहिष्ठधामानमिति । 'सर्वनामस्थाने चासंबुद्धौ' इति दीर्घः। उपेयिवांसमिति। 'उपेयिवाननाश्वाननूचानश्च' इति क्वस्वन्तो निपातितः । 'उगिदचां सर्वनामस्थाने चाधातोः' इति नुम् । 'सान्तमहतः संयोगस्य' इति । महान्तमिति । महधातोरौणादिकेऽतिप्रत्यये शतृवद्भावे चोगित्त्वान्नुमि 'सान्तमहतः'- इति दीर्घः । प्रशासितारमिति तृन्नन्तस्य दीर्घः । प्रियकारमिति । 'क्षेमप्रियमद्रेऽण् च इति कृञोऽण् ॥

.......................

.......................॥२६॥

.......................

.......................॥२७॥

सुहृन्मनोजूर्तिकृतस्तथापि तस्मान्मदीयान्वयनाशवांशः । हस्तिघ्नतो भोजपतेर्भयं नो भनक्ति मूर्तं हृदयं शुचैव ॥ २८ ॥ तथापि तस्मात् भोजपतेर्भयं नो हृदयं भनक्ति भग्नं करोति । सुहृन्मनोजूर्तिकृतः। जूर्तिः ज्वरः पीडा । मदीयान्वयनाशवांशः मदीयस्य वंशस्य नाशं वाञ्छतः । हस्तिघ्नतः हस्तिनं हन्तुं समर्थात् शुचैव मूर्तं मूर्च्छायुक्तम् ॥–हस्तिघ्नत इति 'शक्तौ हस्तिकपाटयोः' इति ठक् । 'गमहनजनखनघसां लोपः क्डित्यनडि' इत्युपधालोपः । वांश इति । 'वाछि इच्छायाम्' । क्विप् । 'छ्रोः शूडनुनासिके च' इति छकारस्य शकारः । जूर्तीति । 'ज्वर रोगे' । 'स्त्रियां क्तिन्' 'ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च' इति वकारस्य उपधाया अकारस्य स्थाने ऊठ् । मूर्तमिति । 'मूर्च्छा मोहसमुच्छ्राययोः' । क्तः । ‘रालोपः' इति छलोपः। 'न ध्याख्यापॄमूच्छिमदास्' इति नत्वाभावः । भनक्तीति । 'भञ्जो आमर्दने । 'रुधादिभ्यः श्रम्' 'श्नान्नलोपः' इति धातुनकारस्य लोपः ॥

'स्वमुत्तमर्णाय यथाधमर्णस्तस्मै कुमारान्बत धारयामः । तस्य स्मरन्तः स्पृहयामहे न स्वजीवितायापि शपामहे ते ॥ २९ ॥ यथा अधमर्ण उत्तमर्णाय स्वं धनं धारयति तथा तस्मै कुमारान् धारयामः । बत वयं