पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। अभ्रंलिहैराकाशलेहर्निविडैस्तमोभिश्छनदिशे छादितदिशि । खारिपचामत्रदिपक्वं खारि- यचेषु पात्रेषु विपक्वम् । खारि पचतीति खारिपचः ॥-'परिमाणे पचः' [इति खश् ] । 'खित्खनव्ययस्य' इति हखः । पक्कमिति । 'पचो वः' इति निष्ठातस्य वः । अध- लिहरिति । 'बहाने लिहः' इति खश् । निकंस इति । 'अवादयः क्रुष्टाद्यर्थे तृतीया' इति गतिसमासः ।। मितंपचं किंचिदरंतुदं तां प्रसूतिजं दुःखमयांबभूव । चक्रं ललाटतपभास्कराभं दधानमीशं शरणं गता सा ॥ ५॥ तां प्रसूतिजं दुःखं प्रसववेदना अयांबभूव प्राप्ता । सा ईशं विष्णुं शरणं गता मितं. पचमल्पं किचित् अरुंतुदं पीडाकर ललाटंतपभास्कराभं चक्रं दधानम् । ललाटं तप- तीति तथा मध्याह्नार्कः ॥-मितंपचामिति । 'मितनखे च' इति खश् । अरंतुदमिति । 'विश्वरुषोस्तुदः' इति खश् । संयोगान्तलोपः । ललाटंतप इति । 'असूर्यललाटयोई- शितपोः' इति खम् ॥ प्रियंवदं मित्रमिवानुरोधि द्विपंतपं देवमिव स्तुवानम् । इरंमदं ज्योतिरमुञ्चभ्रं शनैः शनैः प्रावृषिकं ररास ॥६॥ प्रावृषिकं प्रावृषि जातमनं शनैः शनैः ररास शब्दायते स । प्रियंवदमनुरोध्यनुवर्व- नशीलं मित्रमिव । द्विपंतपं देवं स्तुवानमिव । द्विषतः तपतीति । इरमदं ज्योतिरमुञ्चत् इरया जलेन माद्यतीति ।-रंमदमिति । 'उग्रंपश्येरंमदपार्णिधमाश्च' इति निपातनम्। प्रियंवदमिति । प्रियवशे वदः खन्' । द्विषतपमिति । 'द्विषत्परयोस्तापेः' इति खच् । प्रावृषिकमिति । प्राथषष्ठप्' । 'प्रावृषिजम्' इति वा पाठे 'प्रावृट्शरत्कालदिवां जे इति सप्तम्या अलुक्॥ अधीतवन्तो विधिवद्गुरुभ्यः श्रुत्ती: सतीयः सह सेष्टि मत्याः । भूयात्सुखं देवकनन्दनाया हृदैवमाशासत तापसौद्धाः ॥ ७ ॥ तापसौद्धाः प्रशस्तास्तपखिनो हृदैवमाशासत प्रार्थितवन्तः । देवकनन्दनायाः सुखं भूयात् इति गुरुभ्यः सतीथ्यः समानतीर्थेवासिभिः सह सेष्टि श्रुतीः [अधीतवन्तः] । सेष्टीति 'अव्ययं विभक्तिसमीप-' इत्यन्तार्थकसहशब्दस्याव्ययीभावसमासे 'अव्ययीभावे चाकाले' इति 'ग्रन्थान्ताधिके च' इति वा सहशब्दस्य सभावः । सतीषैरिति । 'समाने तीर्थेवासी' इति यत् । 'तीर्थे ये' इति समानशब्दस्य सभावः । तापसौद्धा इति। तपः शब्दात् 'अञ्च' इत्यण् मत्वर्थीयः । 'प्रशसावचनैश्च' इति समासः। मत्या इति । 'मत- जनहलात् करणजल्पकर्षेषु' इति यत् ॥ १. अस्य तत्पुरुषे चरितार्थलादुपन्यासश्चिन्त्यः