पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
काव्यमाला ।

 आयाताय नृपाय पत्रमपरे चिक्रीडितारः पृथ-
 ग्दत्त्वा स्वीयजयाख्यपत्रनिकराद्यन्निन्धदूराश्रयम् ।
 क्रीडन्त्यत्र नृपयाणसमयादूज़ तु तन्मन्त्रिणे
 दत्वाग्ने क्रमतः पृथग्पृथगमी कीडन्ति निन्दन्ति च ॥ ९ ॥
तत्र क्रमः -
 एकतः क्रमगता जयकर्त्यश्चङ्गमोहरकुमाचवराताः ।
 उत्क्रमं दशयुताज्जयपत्रात्ताजरूपसमसेरगुलामाः ॥ १० ॥
नृपतिः प्रथमं ततोऽस्य मन्त्री क्रमतः खेलति सर्वदत्तपत्रैः ।
इति तन्निजजातिपञ्चयूथनमखेलोऽत्र मया विचार्य चोक्तः ॥ ११
 भ्रमान्मन्त्री क्रीडितश्चेद्भूपात्प्रागेव भूपतिः ।
 तदानीं च त्वमायाति तथा सर्वत्र कल्पना ॥ १२ ॥
स्वबामगो यः स नरोत्तमः स्याद्दक्षे नरो होनबलः स उक्तः ।
नरोत्तमक्रीडनयोग्यकालात्स्वकीडनस्यावसरो यतोऽस्ति ॥ १३ ॥
नरोत्तमेनार्पितखेलपत्रे विधिर्यथोक्तः खलु खेलनस्य ।
स हीनवीर्यार्पितखेलपत्रे पत्रद्वयस्यापि भवेत्कदाचित् ॥ १४ ॥
 निजखेलमनुस्मरन्क्रमादुपपन्चेष्वखिलेषु दत्तदृक् ।
 मतिमान्सुविचार्य सर्वतोऽधिकजेता भवति खपत्रतः ॥ १५ ॥
खसंनिधौं यस्य नृपस्य मन्त्री परत्र भूपो यदि को विधिः स्यात् ।
स मन्त्रिमर्त्य्रेन नृपस्य जात्या पत्रं तदा निःसरणाय देयम् ॥ १६ ॥
 पूर्वपत्रविनिःसृत्यौर्जितपत्रगणाद्दलम् ।
 जात्या नेयं यतस्तत्र त्यक्त्वा निन्द्यं दलं निजम् ॥ १७ ॥
एवं खपत्राद्विमपत्रमेकं निष्कास्यतेऽत्र द्वितयं तथा न ।
खेलक्रमादष्ट दलानि यावदिहावशिष्यन्ति विधिस्तु तावत् ।। १८॥
निष्कासने चैत्स्वसमीपपत्रमेकं तु तात्कालिकरखेलयोग्यम्
वर्तेत तर्ह्येवमसौ विधिः स्यान्नो चेत्तदा याचितपत्रदानम् ॥ १९ ॥