पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
काव्यमाला ।

 कर्णावाकर्णयेतामुचितमनुचित्तं त्वक्स्पृशेचन्दनादी-
 नीक्षेयातां नितान्तं परतरयुक्त्तेश्चक्षुषी रूपजातन् ।
 मिथ्यावादाद्वदेवा मृदुरसरसने नासिके जिघ्र गन्धा-
 द्वन्दीमोक्षो भवद्धिर्मम कृपणपटोरद्य लब्धः कथंचित् ।। ६३ ।।
 विश्वज्ञानैकहेत्वोः प्रकृतिपुरुषयोः संगमे पञ्च पुत्रा
 एकैकज्ञानभाजः कथमजनिषत प्रायशो बुद्धिमन्तः ।
 सर्वेषां सर्वबोधः कथमपि भविता चेत्तदा विश्वभाजा-
 मुन्मादः कुत्रं माता विधिरपि बधिरो लोकवृत्तं तु शृण्वन् ॥६४ ॥
 आरोहे दुर्गमायास्त्रिदशपतिपुरीदीर्घसोपानपङ्के-
 र्मध्ये धर्म स्वमंशं सपदि विदधतस्ते गुणानां सरामः ।
 सद्यः सारम्भरम्मा सितलबकणिका लोलनेत्राञ्चलश्री-
 रद्धा बन्धुं भवन्तं कशयति तदिमं मार्गमेव त्यजामः । ६५ ।।
 कर्माणि भ्रातरः किं स्वमनसि भलिनाः कारणं() धूयमादौ
 युष्माभिः संस्कृतेऽस्मिन्दपुषि समुदयो ज्ञानबींजाङ्कुरस्य ।
 गोभिः कालेन पुंसां प्रसभमभिहते भूमिभागे शरादौ
 मिष्टः स्पष्टः समन्ताद्भवति हि नितरामिक्षुदण्डप्ररोहः ।। ६६ ।।
 द्वित्रेष्वेवावतारेप्ववहितमनसो मे भवन्तः सहाया
 धर्माः कर्मोपचाराद्भवत नहि मृषा यावदाराधयामः ।
 पादद्वन्द्वं गुरूणां हरचरणदुवैः() चित्तमारोपयाम-
 स्तिष्ठामि वीतरागैरमरपुरधुनीनीरतीरे बसामः ॥ ६७ ॥
 संसारक्षारसिन्धोरधरदलमिलताम्रपर्णीतटान्तः-
 प्रोन्मीलद्वासशुक्तिस्फुरदलघुरुचां दन्तमुक्तामणीनाम् ।
 नास्माकं जातु लोभः कचिदमरधुनी पातुका तञ्जलित(१)
 मे किं मोकं शरीरं सपदि कृतधियो मुक्तिमासादयामः ॥ ६८ ॥
 प्राप्तो बन्धाय हेतुर्निरक्यवविभोः कर्मलेशानुषङ्गो
 दृष्टान्तो व्योम सिद्धं विशति कथामिदं गर्ममन्धान्धकारम् ।
 व्यापारेणापि सिद्धः परगुणरचिते तान्यवन्धानुरोधो
 जीवास्ये चापराधात्प्रकृतिरिह भवेत्कायसर्गे सहायः ॥ ६९ ॥