पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९
वैराग्यधनदशतकम् ।

 तच्छेषे शुक्रयोगात्सुरुष इति परं तस्य चेत्पापवाञ्छा
 तत्पुण्यं कीटजन्म प्रलयसमुदयौं यत्र सद्यः खभावात् ॥ ३०
 मातर्माये श्रुतासीरुपनिषदि परब्रह्मणस्त्वं द्वितीया
 लीलायन्ते प्रपञ्चप्रकृतिपुरुषयोः कापि शक्तिस्त्वमेव
 भूयो भूयोऽनुभूतं यदि तव चरितं त्वद्वधे पुण्यमेव
 प्रारम्भः कुत्र पुंसः स्वतः इव दुरितप्रागभावोऽपि सिद्धः ॥ ३१ ॥
 लिम्पन्तश्चन्दनेन प्रतितनुसाविषैः कण्टकैर्वा तुदन्तः
 सानन्दं वा स्तुवन्तः प्रतिपदकथया दोषमुद्भावयन्तः ।
 मासे पासे नयन्तो मधुरमथ विषं निक्षिपन्तः कदा मे
 ते ते चैते समानाः सहजपरिणतज्ञानसिद्धिं गतास्याः ॥ ३२॥
 द्वित्रैः सद्यः प्रसूतैः प्रथममुपचितं पञ्चषैर्जातदन्तः
 सप्ताष्टैर्वृत्तचूडैः पुनरधिकदशैः शैशवातीत पुंभिः
 विंशत्या त्रिंशता वा परिणतवयसां सैकपञ्चाशतैवं
 द्यूते कालश्च कालीपणमुचितनुतः प्राणिभिर्नित्यमेव ॥ ३३ ॥
 बद्धा रुद्धा विरुद्धा जनशशशिशवः खण्डिताः पुंवराहा
 दर्पान्धाः स्कन्धबन्धे नरपतिमहिषा लक्षिता वीक्षणेन ।
 विद्वन्नागानुरागात्पथि पथि निहता ज्ञानसिद्धोऽपि सिंहः
 कालं व्याधेन नीतः स्ववशमिति जगत्कानने कर्मदावे ॥ ३४ ॥
 यातायातेन खिन्नो निशि निशि सुतरां कालचौरो निरासो
 जीवं रत्नं समन्तान्मुमुत्रिषुरधिकं जागरूकस्य जन्तोः
 द्वारे द्वारे कपाटं दृढमूलघुतरं कर्म दत्वोपदिष्टं
 ध्यानं कृत्वा प्रदीपं श्वसनपरिभवं सर्वतः संनिरुध्य ॥ ३५ ॥
 भित्त्वा भितिं समाधिं विषयसुखकुशी कौशलेनैव सद्ये
 यामिन्यां जागरूके मनसि शशिमुखीप्रेममयेन मत्ते ।
 बन्धुत्यागापराधान्महिमान गलिते पञ्चसु न्यकृतेषु
 मुष्णात्येव प्रमादाच्छुसितघनमिदं प्राणिनां कालचोरः ॥ ३६ ॥