पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
वैराग्यधनदशतकम् ।

 सत्वोद्रेकः खभावादिदमखिलमही नश्वरं चेति बोधो
 हेतुर्वैराम्यजन्मन्यपि धनतनवस्त्रीवियोगः कदाचित् ।। ४ ।।
 काष्ठान्ताबद्धरश्मी शशिदिवसकरावेव निर्माय पात्रे
 पुण्यं पापं विविक्तस्तुलयितुमसकृद्धाञ्छतीवेह कोऽपि ।
 पुण्यस्य ज्योतिरेतद्विलसति सवितुर्मण्डले दीप्यमानं
 चन्द्रस्यान्तर्यदेतन्मलिनमिव परं दृश्यते पायमेतत् ।। ५ ।।
 शान्तिः काचित्कुमारी दमयमकुलजा शीवीरैकबन्धुः
 पित्रा बोधेन दत्ता सममुपनिषदा मानिनेऽस्मै वराय ।
 वीर संतोषमेकं विविधगुरुकुलाधीतनीतिं प्रसूता
 ग्रावाणो यस्य याताः कनकपरिणतिंं शालयः शाकपाकाः ॥ ६ ॥
 शोकाग्निज्वाललीढे बहुविधविषयनेहपूरे गभीरे
 संसारेऽसिन्कटाहे जनवनशकुनीन्मोहजालेन बद्धान् ।
 भर्जं भर्जं यदनन्विकटयति मुखं चन्द्रसूर्यच्छलान्त-
 र्दृश्येते कालदंष्ट्रे सदुडुपरिकरं कीकसं तत्प्रतीमः ॥ ७
 रज्यद्विम्वाधरश्री पिशितसवलितं रोमराजीवरसूत्रं
 भ्रुपल्लिक्षेपकालायसंवडिशमिदं तत्कटाक्षोपफर्णि ।
 अस्यां संसारनद्यां वितरति कुतुको निर्दयोऽयं कृतान्त-
 स्तद्ग्रासालासधारां परिहरत परं म्रातरो लोकमीनाः ॥ ८॥
 नापेक्षा भूषणानां भवतु न नितरां चन्दनेनाङ्गराग-
 स्तस्यारम्भोऽपि दम्भो वसति तरुणयोः प्रेम चेदेकमन्तः ।
 तच्चित्तं विरक्तं यदि वसतिरियं कन्दरा बन्धुवाचः
 प्राणायामः सुखेन स्थितिरपि विदितं योगिनामासनं तत् ॥ ९ ॥
 कस्मै संचारदीपाः पथि पथि विहिताः खर्गसोपानमार्गे
 रम्भे कुम्भं निधाय खशिरसि पुरतः कस्य हृष्टा प्रयासि
 तीर्थे तीर्थे तपस्या रविचिरमधुना सोऽधुनेहाभ्युपेत-
 स्तावत्क्लेशेन तत्किं कृतमिह नयतो जायते खप्रकाशः ॥ १० ॥