वर्षे व्योमात्रवेदक्षिति(१४९०)परिकलिते विक्रमाम्भोजबन्धो-
र्वैशाखे मासि वारे त्रिदशपतिगुरोः शुक्लपक्षेऽहितिथ्याम् ।
जीवाब्दे सौम्यनाम्नि प्रगुणजनगणे मण्डपे दुर्गकाण्डे
ग्रन्थस्यास्य प्रतिष्ठामकृत धनपतिर्देहडस्पैकवीरः ॥ १०२ ।।
यावत्कल्पकथाकुतूहलकरी यावच्च जैनागमः
शेषं सादरमादधाति धरणी शीर्षेण यावञ्चिरम् ।
यावत्सन्ति पयोधयोऽपि निखिला मर्यादयोद्यन्मुदो
विद्वत्सु त्रिशती विराजतुतमां तावद्धनेशाज्ञया ॥ १०३ ।।
इति तपःसिद्धतरखरतरानायसोनवंशावतंसश्रीमालकुलतिलकसंघपालनीमद्देहडाः-
त्मजविविधविरुदराजीविराजमानश्रीधनदराजविरचिते. शतकत्रये
वैराग्यधनदाभिधानं तृतीयं शतकम् ।
सिद्धौ व्योन्नो द्वितीयस्तदुदितमरुतः संपदो यस्तृतीय-
स्तेजस्तोऽस्माच्चतुर्थो भवति च पयसः पञ्चमस्तन्निमित्तात् ।
षष्ठः सर्वेसहाया जलकलितजनेरेकरूपः समन्ता-
दाभासेनैव नाना जयति लयजनुःकारणं सोऽन्तरात्मा ॥ १ ॥
श्रीमालः श्रीविशालः खरतरमुनितोऽधीतधर्मोपचारः
पारावारान्यतीरमचुरदुरयशा दानसंतानबन्धुः ।
नानाविद्याविनोदस्फुरदमलशमः कामरूपाभिरामो
जीयाद्धन्यो धनेशः शमशलकमिदं यख नाम्ना विभाति ॥ २॥
संसारे सारवस्तुप्रथममुपगतं पुण्यमस्य प्रकारा-
हाने शीलं तपस्या त्रितयमभिहितं साधुसंधैर्विविच्य ।
स्वर्गस्तस्थापवर्गः सुखयति स च नो कंचन प्राप्तबोधं
वैराग्यं तस्य हेतुस्तदखिलमधुना कथ्यते मोक्षसियै ॥ ३ ॥
आलापो वीतरागैर्विषयपरिणतेरेकचित्तेन चिन्ता
साक्षात्कारो रुजाया जननमरणयोरागमेषु प्रमाधीः ।