पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
काव्यमाला ।

 स्वातन्त्र्यादिव योषितो नयपथाभावादिव श्रीभरा
 निःस्निहादिव बान्धवाः परगुणद्वेषादिव प्रीतयः ।
 कार्पण्यादिव सेवका बहुमृषालापादिव प्रत्यया
 गर्वादन्यरता भवन्ति सहसा लोकाः स्वयं भूपतेः ।। ७४ ॥
 मर्यादा स्थितये करो नरपतेर्नार्थक्रियासंपदे
 शश्वद्भूरि जयश्रिये रणकथा नैवान्यविच्छित्तये
 पुण्यायैव धनार्जनं बहु मतं नो भोगसंपत्तये
 शीलायैव नवस्थितिर्न परतो विश्वाससंवित्तये ।। ७५ ॥
 रविरिव विजिगीषुमण्डलं रक्तमुच्चै--
 र्दधदुदयति पूर्वं शीलयन्दक्षिणाशाम् ।
 तिरयति परतेजःसंहति कर्मसाक्षी
 घटयति किल चक्र भिन्नमन्यप्रयोगात् ।। ७६ ॥
 रजो भवति सुन्दरं तनुषु लग्नमेकान्ततः
 शिशोः समरभूमिजं वियति नीतमुच्चैः पदम् ।
 पतत्पुनरनाकुलं तरुणवीरकूर्चस्थितं
 स्वलास्यपरिपूरकं सदसि कीर्तितं सर्वतः ।। ७७ ।।
 आकाशस्य विशालताथ महसामेकास्पदत्वं तमः-
 प्राप्तौ ब्रीडितचेष्टितं श्रुतिपयस्यारम्भहेतुप्रथा ।
 सर्वाशेकनिवन्धनत्वमखिलज्येष्ठत्वनीरोगते
 दीर्घायुष्वमनाकुलत्वमसकृत्संचिन्तनीय सता ॥ ७८ ॥
 सर्वस्यान्तश्चरति सततं रञ्जयत्येव विश्वं
 स्वादस्य स्फुरति शुचिता मित्रजीवायमाना ।
 उच्चस्थायी प्रथितकुलता रम्यरम्यखभाचो
 वायुः सेव्यो द्विगुणचरितो भूतवर्गे द्वितीयः ॥ ७९ ॥
 यच्चक्षुः पुरुषोतमस्य विविधालोकैकहेतोः परं
 रूपस्यास्पदमेकमेव मरुतामाहारहेतूदयम् ।