यस्तस्याश्चञ्चलत्वं कलयति मनसा यातुमुद्यच्छलाया
दाने भोगोपयोगे व्ययकरणमदो दोषनिर्यातनाय ॥ ५४ ॥
उत्पत्तिः क्षीरसिन्धोः सहजशुचिरुचेरेप पीयूषमूर्ति-
र्बन्धुर्देवस्त्रिलोकस्थितिकलितजनुर्दुःखमारेऽपि भर्ता
पद्मे केनोपदिष्टो भगवति कुलजा निन्दितो मन्त्रपाठो
यत्ते दृष्या जनानां मुखनयनमहो वैकृतं याति तूर्णम् ॥ ५५ ॥
गुरोर्वचनकारिता विधिषु दत्तभूरीक्षणः
पुरो भवति तेजसो वशितदर्पकः कर्मणि
कणादकृतसंमतिः प्रथितमन्युमानोदयः
सुराधिपं इवोद्यतो भवति लोकपानाग्रणीः ।। ५६ ॥
शुचिः स्फुरति नाम नो सदसि यज्वनामग्रणी-
निजाशनविधौ कृतप्रचुरवर्गतृप्तिः क्षणात् ।
धनंजयमहोजसोस्तमसि चित्तजातस्मृतेः
पुरंदरकृतान्तयोः समतयेव मध्यस्थितिः ।। ५७ ।।
धर्मावेक्षणकौतुकेन गणितप्राणिप्रमोदादयः
शक्तिपापितदण्डनीतिमहिमा वाहद्विषत्प्रेरणः
आयुर्मर्मविवेचनः स्मृतिजुषामेकः परासो रसा-
प्रायोपायवशीकृताखिलजगत्कोऽपीह धन्यो जनः ॥ ५८ ॥
नान्ना पुण्यजनोऽयमाधिकपदो दृष्टप्रचेतःस्थितिः
खङ्गाधीतिविचक्षणः क्षणदया जाग्रद्विहारोदया
वाञ्छामात्रसुसिद्धकार्यगरिमा बीभत्सितो. निर्भयो
धीरः कोऽपि चतुर्थदिक्पतिसमो मन्युप्रदद्वेषणः ॥ ५९ ॥
प्रतिजलनिधिजागन्नामधामाभिरमः
शरणंगतमहीभृत्पक्षसंवर्धनश्च ।
परिचितबहुशब्दो नागराजोक्तिबोधा-
द्वरुण इव विनीतो नायकः साध्यवक्रः ॥ ६० ॥
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६३
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
नीतिधनदशतकम् ।