पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
काव्यमाला ।

 विघ्नः पुण्यकथासु संसदि सतो हासस्य दृष्टान्नतः
 म्युर्जिन्यनिवन्धनानि गुमिना हेयानि दूरादरम् ॥ १७ ॥
 न्यग्रोधाध्वनि रोपितोऽसि कृतिना विश्रामहेत्तोरथ
 च्छायावानसि शीलितोऽसिन पुरा दृष्टोऽसि दूरात्कली।
 खेलद्वानरयूथनायकमुखन्नस्यच्छिशनामहो
 मू_मोहजलार्थिनी निपतिता कूपे कचिद्गहिनी ॥ १८ ॥
 रोहिण्या निजवल्लभस्य हृदये कस्तूरिकालेपन
 यदत्तं रसपेशलेन विधुना लुप्तं च न प्रेमतः ।
 लक्ष्मैतस्किल कल्पितं समभवत्करमादिदं तत्कयो-
 प्रेक्षाकौतुकतो विनिश्चितमिदं पापं महादुर्जनः ॥ १९ ॥
 श्रोता चेत्खलजल्पितस्य पुरतो हुंकारदाता भवे-
 देकः कोऽपि न सज्जनस्य चरिते दोषाः कियन्तस्तदा ।
 संभाव्या यदि सज्जनस्य पुरतो दोषैकभूमिः कृते
 दुष्टानामपि नो गुणाः कति कति स्युर्दोषजाते तदा ॥ ५० ॥
 सिन्धों रलाकरोऽसाविति मुदितमनाः कोऽपि लुब्धो धनी नः
 प्राप्तस्त्वत्तीरमाराजलमुपरसनं थूत्कृतं तृष्यतापि
 दृष्टास्ते ते सहाया मकरविषधरा मजतो पामरारो()-
 मिन्नो भूर्धा क रलं चिरनिबिडमिलत्पङ्कमग्नं नु दृष्टम् ॥ ५१॥
 कोपारोपे चेतना धर्मभाजो दीने दृष्टे दीनतैवान्तरास्ते
 कामासक्तावेकदारोपसेवा पर्वताप्ती शीलनीयास्ति()रेव ।। ५२ ॥
 सुमतिभिरुदिता समाधिगम्या
 परिणतपुरुषैः कृता समासा ।
 नहि परिणतिभाजा न जानन्ति शास्त्रं
 न हि तदपि सदेतवत्र धर्मो न नीतः ॥ ५३ ।।
 कोऽयं लोकेऽपवादः स्तुतिनिकरपदे यंद्यशीले चला श्रीः
 साधूनुन्माय सधस्तरलयति चिरं भूयसा छद्मना यः ।