पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
नीतिधनदशतकम् ।

भूमिर्भूपतिवल्लभा बहुगुणा नूनं प्रजास्तत्सुता-
 स्तां वाञ्छन्नपि तान्निजानभिभवन्भूपेन बध्यः स्वयम् ।
भूम्यर्थ रिपुसंगरेष्वभिहता यान्तो रुषा संमुखं
 योगिप्राप्यमवाप्नुवन्ति हि पदं भूमीभृतस्तत्क्षणात् ।। १४
भग्ने राजबले परेण बलिनाक्रान्ते रणप्राङ्गणे
 धीरः कोऽपि निवर्तते यदि ततो धन्या प्रसूस्तस्य तु ।
एकैकस्य महाक्रतोः प्रतिपदं यस्य प्रशस्तं फलं
 भीतत्राणकलातिरेकमहिमा लोके भवेदस्य वा ॥ १५ ॥
आरब्धस्यापवर्गे स्फुरदमलमतिर्मुक्तमानो नतानां
 वित्तायत्तात्मवर्गः प्रतिकृतिकुशलः सेवकानां कृतेषु ।
विज्ञानस्यैकसीमा गुरुगुणमहिमा धर्मकार्ये प्रवीणः
 सेव्यो नाथो वदान्यः सहजकरुणया दीनवत्तावधानः ॥१६॥
मर्मस्पृङमर्मवाचा कथितपरगुणः प्रस्तुते चोपकारे
 दीने हानावधानो विदितमपि सकृदूषणं श्रोतुकामः ।
काले काले धनानां स्मरति च समये सेवकनाक्तानां
 ताडक्सेव्यो न सेव्यो यदि धरणिरियं राजशून्यापि जाता।॥१७॥
बाढात्तस्करतोऽपि साहसिकतो वैधर्मिकात्कामुका-
 बूदिक्षविनोदतोऽथ रजनीवीराच्च धात्रीसुतात् ।
कायस्थानिजमन्त्रिणः खपुरुषानामीणपुत्रादितः
 प्रौढस्थानिकशासनाद्रदतो रक्षन्प्रजाभूपतिः ॥ १८ ॥
परयुवतिकथाविदूषकानां वचसि न हासरसः सता विधेयः
अपरजति जनस्तथा कथायां पदमपरागपदं महद्विपत्तेः ॥ १९ ॥
किं नान्तमलिनः शशी न कुटिलः शेषो द्विजिह्वो न किं
 शक्रः किं न बहुच्छलो ननु रविः सन्मार्गसंतापकृत् ।
मार्गः किं न मलीमसो हुतभुजो लोकैरिमेताहता(?)
 इत्थं चेतसि संनिधाय पिशुनो द्वेषे प्रवृत्तः सताम् ॥ २० ॥