सूते संसदि संमदं वितनुते युद्धं विनैव श्रियं
रुन्धे दुर्जनचेष्टितं यति परं तेजांसि वैरात्मनाम् ।
बन्धून्वर्धयति प्रसज्य सुहृदः संतोषयेदेकतो
नीतिः कस्य न वल्लभोपकरणं नानाविधं तत्त्वतः ।।६।।
भूपैर्भूपसुतैः प्रधानपुरुषैरन्यैश्च सेवापरैः
सेव्यं नीतिविवेचनं तत इतो न स्यात्प्रमादः क्वचित् ।
हन्तुं वैरिणि सोयमे नयविधिः कुण्ठं करोत्यायुधं
शस्त्रेणापि विना करे नयविदा बुद्धिर्भवेदायुधाम् ॥ ७ ॥
परिणतजनसेवा संगतिः सज्जनानां
कविगुरुमनुशास्त्रावेक्षण सभ्यगोष्ठी ।
नृपसदसि नितान्तासत्तिरध्यात्मचिन्ता
गुरुनगरनिवासः कारणं नीतिवित्तेः ॥ ८॥
ज्ञेया नीतिभूमिपालेन यलाद्योगक्षेमौ यदशौ यत्प्रजानाम् ।
कार्याधीने यस्य मैत्री विधत्ते प्राणापायः पुत्रतोऽपीह नीयः ॥ ९ ॥
बालः पुत्रो नीतिवाक्योपचारैः कार्ये कार्ये यत्नतः शिक्षणीयः ।
लेखा लगा यामपाने विचित्रा नासौ नाशं पाककालेऽपिं याति ॥ १०॥
प्रकृतिभिरनुवेले. चिन्तनीयः कुमारो
नयविनयकुलीनाचारचातुर्यशौर्यः ।
निरपतिकुललक्ष्मीहस्तिनी यन्न बद्धा
जयजुषि युगवाही चञ्चलत्वं जहाति ॥ ११ ॥
मद्यासक्तिश्छद्म5दः परस्त्रीसेवा दाने कातरत्वं प्रमादः ।
लोकावज्ञेकान्ततो वासबुद्धिर्हासप्रीती राजपुत्रस्य दोषः ।। १२ ।।
प्रकृतिवचसि जातप्रत्ययोऽधीनविद्यः
समधिकबहुशस्त्रः शिल्पविद्यागुरुश्च ।
प्रथममधिगतार्थों विद्विषाचाररीत्या
नरपतिरिति भुङ्क्ते राज्यमव्मयग्व्यारमेकः ।। १३ ।।
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५६
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
काव्यमाला ।