पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१
शृङ्गारधनदशतकम्

दृश्यन्ते कलुषा निशा मुखपतत्कान्ताङ्गरागादिति
 त्वत्कान्तानुचरीश्हु वञ्चनकथापाण्डित्यमभ्यागतम् ॥ ५१ ॥
लुप्तश्चन्दनबिन्दुरञ्जनरसः पीतोऽनुलेखो गतो
 निःशेषेण कपोलयोः कुचयुगे शेषो मकर्याः कुतः
दग्धेयं सखि मध्यभागतनुता पद्भङ्गभीरुः प्रियो
 गाढाश्लेषपराङ्मुखो रतविधौ तुष्टः कदाचिद्यदि ॥ ५२ ।।
सौधस्योरसि मन्मथप्रतिकृतिः प्रासादपृष्ठे शशी
 क्रीडाकाननवेदिकासु च पिकस्तद्दीधिकायां मरुत् ।
इत्थं त्वद्विरहेऽधुना कृशतनोः शय्यासमासादन-
 व्यग्राणामितरेतरं मधुमुखे तस्याः सखीनां मिथः ।। ५३ ।।
आगच्छेति मया श्रुतं जिगमिषोर्यामीति तूष्णी मतं
 पाथेयं निजपाणिनां विरचितं दृष्टोऽवधिः समितम् ।
प्राणा येन तदा तदा किल गता वक्षो न दीर्ण च य-
 त्ततेषां च का कथा यमधुना दम्भाय कार्यो विधिः ॥ ५४॥
किं निन्दन्ति सुधानिधिं मलयजं किं नाद्रियन्तेऽथ किं
 श्रीखण्डानिलमावृणन्ति सहजामुज्झन्ति किं धीरताम् ।
किं कामं विलयन्ति किं सिकरुतावस्यन्ति मूर्च्छन्ति किं
 तल्पे पल्लवकल्पितेऽपि सुदृशस्तद्ब्रूत किं कारणम् ॥ ५५ ॥
बाल्यादय विनिर्गतं तव वयः कान्तः स्वयं दक्षिणो
 बृद्धाधीतबहुच्छला वयमिमा वा कासजीवातवः ।
क्रीडाकाननसौधशैलशिखरे श्रीखण्डशैलानिल-
 स्वाचान्तश्रमवारिबिन्दुरधिकप्रेम्णा मधुनीयताम् ।। ५६ ॥
सा पत्युः शयनं गतेति मुदिता श्रुत्वा सखीभाषितं.
 पश्यामः प्रियसद्म विद्म न वयं कीदृक्षमन्तर्भवेत् ।
लाक्षालक्ष्मसुलक्षपादयुगलं तल्पं दृशा चिन्वती
 चित्रस्थे च निरीक्षिता सहचरीवृन्देन मन्दाक्षतः ॥ १७ ॥