पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०
काव्यमाला।

क्रीडासद्मनि कापि कौतुकवती क्षीरोदपूरोदरे
 निन्द्राणं हरिमालिलेख निखिलप्रारम्भमुद्रागुरुम् ।
पूर्वं दक्षिणमीक्षणे भगवतो ध्यात्वा हसन्ती क्षणं
 पश्चाद्धाममलीलिखत्किमु निशा यस्यां न गाढं तमः ॥ ४५ ॥
मात्रा चित्रविशेषलेखनविधावादिष्टपूर्वा चिरं
 विष्णोर्जागरणोत्सवाय सुदती रेखामधादग्रतः ।
कैलासाचलगामिमानससरः खच्छे लिखेत्यादृता
 क्रीडाशैलसरश्चकार विकसज्जाम्बूनदाम्भोरुहम् ॥ ४६॥
नष्टे तेजसि बान्धवे विधिवशाद्द्यावापृथिव्यौ मिथो
 कुर्वाते सलिलाञ्जलिं मरुदसावद्यापि नोत्तिष्ठते ।
आक्रान्तेन महौजसा च वियता क्षिप्तं यदन्धं तमः
 प्रातः पीतमनिच्छया तदधुना विष्वग्वसेन्मेदिनी ॥ ४७ ॥
वारुण्याञ्चलवायुनोपशमिते भास्वत्प्रदीपेऽधुना
 किं चिन्वन्ति नवाजनं सममिदं शृङ्गारमाधित्सवः ।
किं वा सत्रिमिराहतेषु पतिषु व्योमैकगेहोदरे
 सद्यः संप्रति शेरते दश दिशः सत्यं सुखं यातरः ।। ४८॥
मुग्धे माभिसर स्वमन्दिरमलं कुर्वानय प्रायशः
 प्रेयांसं तव साहसं न घटते तथ्यं हितं ब्रूमहे ।
सद्यस्त्वन्मुखचन्द्रिकामिरमितो लीडेऽन्धकारेऽधुना-
 प्यन्यासामभिसारसाहसरसे जातोऽन्तरायोऽधुना ॥ ४९ ॥
मञ्जीरं त्यज मुश्च मौक्तिकसरं मा मल्लिकाः शीलय
 नीलं वा परिधत्स्व चारु वसनं वाचं नियच्छादरात् ।
मन्ये स्यादभिसारिका न भवती दूरे ध्वनिं प्रायश-
 स्वच्छ्वासानिलविप्रलब्धमधुना प्रातः समुज्जृम्भते ॥ ५० ॥
उड्डीना स्नपया त्वया ननु जिता गत्या निमग्नाः कदा
 तल्पाय प्रतिवासरं कृशतनो लूनाः सखीभिस्तव ।