पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
 

कण्ठे चेद्यधि कोकिलस्य कुरुते तत्कण्ठकुण्ठस्तदा
 नोच्चैः पञ्चममातनोति सुदती जीवेत्कथंचित्तदा ॥ ३८ ॥
प्रालेयाचलनिम्नगाभिरभितो मार्गे निरुद्धेऽधुना
 प्रावृष्येति न यक्षराजककुभस्तन्वी कथं जीवति ।
इत्यालापपरम्परां श्रुतवती त्वासां सखीनां मिथो
 बाला पृच्छति साधु रावणपुरीद्वारध्वनो वासरान् ।। ३९ ।।
आकर्णाञ्चित्तधन्वनः करिवरव्यापादनायोद्यता-
 न्विन्ध्यालेख्यमहाटवीषु मृगयोत्साहे सखीनां पतीन्
कोदण्डाञ्चलबद्धनिर्मदशिखिप्रस्फारपिच्छध्वजं
 प्राप्तं स्वं पतिमालिलेख सुदती गर्वाज्जहासोच्चकैः ॥ ४२ ॥
यस्मात्योपीनपयोधरद्वयमिदं कृत्वोपधानं सुखं
 स्नातौ दर्पकदम्पती मृदुतनावस्यां शयाते चिरात्
किंचिच्छ्यामलमग्रतस्तदुभयं पाण्डुस्वभावादहो
 धम्मिल्लाङ्कनिमग्नतैलशबलच्छायां ततो लक्ष्यते ॥ ११ ॥
मञ्जीरद्वयमेतदङ्गदयुगं ग्रैवेयकं कुण्डले
 सप्तैतानि विलोकय प्रभुरसि स्वैरं सपल्याः पुरः
किं ब्रूमः पतिदेवता वयमिति व्याहृत्य पत्युर्ददौ
 सीमन्ताचलपद्मरागशकलं बाला बलादञ्जलौ ॥ ४२ ॥
लीलातामरसं विपक्षरमणीहस्ते निरीक्ष्यादरा-
 दावेशादुपविश्य सामि सहसोड्डीनरलीनां गणैः
गुञ्जत्सौरभलम्पटालिपटलीश्याम सदेवात्मनो
 मा दृष्टेति ललज्ज कापि रमणी तत्याज दूरेऽम्बुजम् ॥ १३ ॥
प्रेयस्ताडनकर्मणीदमुचितं निर्वापर्क तेजसो
 लज्जानर्मणि लोचनाञ्जनरुचः सौभाग्यसंपादकम् ।
प्राप्ते प्रेयसि मन्दिरं तदपर लीलारविन्दं पुनः
 शय्योत्थायमपाचकार रमणी सौधाद्बहिः सत्वरम् ॥ ४५ ॥