पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
काव्यमाला ।

वैमुख्येन शयानयान्वरमणीनाम्ना समाहूतया
 नाश्रावीति निमीलितं प्रलपितं मिथ्येति निद्राहता।
उद्यद्वेपथुना द्वयोर्यदचलत्तल्पं सदाभ्यां छला-
 त्त्रस्यद्भ्यां च परस्परेण कलितं नीरन्ध्रमालिङ्गनम् ॥ ३२ ॥
वारं वारमुदाजहार रमणी दृष्टान्तमेकान्ततो
 दम्पत्योः कलहोपहाससमये कश्चित्सखीनां पुरः ।
रुष्टा तेन मनस्विनी नु सुभगमन्यः प्रियो नाधुना
 चित्ते मानमवीवसत्किमधिकं जात्यैव वामाः स्त्रियः ॥ ३३ ॥
उच्यन्ते नु विशेषका न रमणीवक्त्रे विशेषः क्वचि
 त्तेभ्यस्ते खलु वेधसा विरहिणोः सृष्टोऽन्तरायः क्षणम्
सायं सायमनीदृशं यदपरं तत्प्रातरालोक्यते
 जाड्योन्मुक्तनिशीथपार्वणविधुध्वंसाय मीमांसयत्(8) ३४ ॥
निर्व्यूहः सुखमावयोर्त्योमधुरयं न स्यात्तपर्तुस्तथा
 संतापाय वियोगिनोरिति मुहुः श्रुत्वा पिपासोर्वचः ।
बाला पृच्छति सस्मितं न मुकुलं स्यान्भल्लिकायां कथं
 निर्गन्धा वनपाटलाः कथमसौ तन्नाथ मे कथ्यताम् ॥ ३५ ॥
प्रावृप्येष्यसि दासरास्तु बहवो मध्ये तपो दुःसहः
 दातारो नवमालिकासुरभयो यत्रापरे मारुताः ।
धारामन्दिरमाद्रतल्परचना चन्द्रातपश्चन्दनं
 यस्पर्शेन विषायतेऽखिलमिदं प्रायो वियोगक्षणे ।। ३६ ॥
यास्यामीति न गावदीरितमनुप्राप्ते कथागौरवे
 तावन्नर्मणि न स्खलत्पतिवचा वासः स्खलद्बध्नति
चिन्ताश्चासनिपीतपीतिमतनुस्तावद्गभीराशया
 नासामौक्तिकमानभूषणमणिदृष्टा मया प्रेयसी ॥ ३७॥
मा काकं दधिभक्तमाशय मुहुस्तिर्यत्करः किं वदे-
 दस्य ज्ञानविबोधनाय विधिना सृष्टो धरायां पिकः ।